SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सत्यव्रते स्मरनन्दनकथा । सत्यमेव वदेद्यस्मादिहाऽमुत्र च देहिनः । जनानुऽरागादाढ्याः स्युर्भोक्तारश्च शिश्रियः ||१| सत्येन दुर्जनः स्वः स्यात्का कथा महतां सताम् ? । विषमप्युपयोगि स्यान्मन्त्रेण किं पुनः परम् ||२|| असत्यवादकः स्वोऽपि, परः स्यात् सत्यवादकः । परोऽपि स्वो भवेन्नूनं स यथा स्मरनन्दनः ॥३॥ पुरं श्रीपुरमित्यस्ति, तत्राऽस्ति लक्ष्मणो नृपः । यत्करेऽसिवधूर्लग्नाऽगृह्णात् प्रत्यर्थिनां करान् ॥४॥ तस्य कामपताकाऽऽख्याऽस्ति राजमहिषी प्रिया । या स्वबिम्बोष्ठरागेणाऽरञ्जयत् कामिनां मनः ॥५॥ पुरेऽस्मिन्नन्यदा ज्योतिःशास्त्रेऽधीती शुकोत्तमः । समागात् सर्वदैवज्ञमूर्द्धाऽभिषिक्ततां गतः ||६|| यो यत्पृच्छति तज्जन्मग्रहचारात्तदाह सः । संवदत्येव तत्सर्वमुच्चैर्नीचैः कुलाऽऽदिकम् ||७|| यद्भूतं यस्य यद्भावि, तत्तस्मै कथयन् स्फुटम् । सभाक्षोभकरः कीरः, पौरलौकमरञ्जयत् ॥८॥ सत्यव्रते स्मरनन्दनकथा । ४२५
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy