________________
एह्येहि तन्वि ! यक्षेण, त्वं मे दत्ताऽसि वल्लभा । इत्याश्लिष्य स तां रेमे, यक्षाऽऽदेशान्नतोऽभवत् ॥५७॥ प्रातः कङ्कणमाहात्म्यादेकाऽऽप्ता श्रेणिरात्मना । एत्य रत्नाऽङ्गदयुतां, तां दासीं स्वामिनीं व्यधात् ॥५८॥ जीवरक्षाकृतं पुण्यं, दासी चेतसि कुर्वती । आधिपत्यं गताऽप्येषा, दयाधर्मपराऽभवत् ॥५९॥ दासीत्वाऽपगमात् स्वाम्याधिगमान्मुदमीयुषी । अन्यदा निशि पल्यङ्के, सैषा सुष्वाप निर्भरम् ॥६०॥ क्षणेन गतनिद्रेयमथैकां स्त्रियमैक्षत । संवाहयन्तीं चरणौ, दासीमिव क्रमाऽऽगताम् ॥६१॥
तया प्रोचे हले ! का त्वं ?, सा प्राह तेऽस्मि दास्यहम् । त्रायस्व स्वामिनि ! त्वं मां गतिस्त्वं मेऽत्र नाऽपरः ||६२|| मन्त्रिदासी बभाषे तां, क्वत्यास्यत्राऽऽगताऽसि किम् ? | त्रातव्याऽसि कुतो ब्रूहि, कान्दिशीके ! बिभेः स्म मा ॥६३॥ ततः सा रुदती प्राह, शृणु देवि ! प्रसादतः । रिपुमर्दनस्य राज्ञः, सुताऽस्म्येलापुरेशितुः ||६४|| कामलेखाऽभिधा साऽहमेकदाऽगां सखीयुता । नद्यां हि जलकेल्यर्थमारूढा नावमायताम् ||६५॥ ततोऽभून्मरुदुद्दण्डो नौ: पुस्फोटाऽमुना हता । मदीय: स सखीवर्गः, क्वाऽप्यगात्तन्न वेद्म्यहम् ॥६६॥ अहं फलकमेकं च, प्राप्याऽऽरूढाऽस्मि तद्दृढम् । विद्याधरेण केनाऽपि दृष्टा तेन हृताऽस्मि च ॥६७॥ आनीय ह्यस्तनदिने, मुक्ताऽस्म्यस्मिन् गृहेऽन्तिके । हरिष्यति स मे शीलमिति भीस्त्वामिहाऽऽगमम् ॥६८॥
जीवदयायां मन्त्रिदासीकथा ।
४२३