SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अथैकं तत्पुरश्रेणेरेकस्याः स प्रभुर्भवेत् । तद्वशेन च सर्वर्द्धिस्तस्य सम्पद्यतेऽचिरम् ॥४५॥ ततो विद्याभृतो व्योम्ना गच्छतः स्वप्रियां प्रति । चपेटाप्रेरिताद्धस्तात्, पपातैकं हि कङ्कणम् ॥४६।। वीक्षितं बहुशोऽप्येतन्नाऽऽप विद्याधरेश्वरः । य एतत्प्राप्यते भावी, स एकश्रेणिभूपतिः ॥४७।। श्रुत्वेति तद्वचो दासी, सस्मार कङ्कणं हि तत् । राजपुत्र्याऽन्तिके मेऽङ्के, यदेतत्पतितं किल ॥४८॥ अहो ! मे जीवरक्षायाः, फलं जातमिहैव यत् । प्राप्तं कङ्कणमस्माच्च, विद्याधरर्द्धिराप्स्यते ॥४९॥ ध्यात्वेति साऽब्रवीद्रत्नाऽङ्गदं तवेदमर्पये । वर्त्तसे चेन्मदादेशात्ततो रत्नाऽङ्गदोऽवदत् ।।५०।। स्वामिन् ! यक्ष ! यब्रूषे त्वं, करिष्ये तदहं सदा । इत्युक्ते तेन सा प्राह, तर्हि शृणु वचो मम ॥५१।। त्वं स्वस्थानं गतः स्वस्मिन्, विमाने द्रक्ष्यसि स्त्रियम् । सकङ्कणां ततस्त्वं तां, कुर्या भार्यां सदा प्रियाम् ॥५२॥ नाऽपमान्या त्वया सैषा, वर्तितव्यं तदाज्ञया । इत्युक्त्वा शनकैः साऽथ, निर्ययौ यक्षमध्यतः ॥५३।। ध्वान्ते ताभ्यामदृष्टा सा, तद्विमानं समेत्य हि । निलीयाऽस्थात् क्वचित्स्तम्भाऽन्तरे न दृश्यते यथा ॥५४।। ततो रत्नाऽङ्गदः किञ्चित्, स्थित्वा विमानमासदत् । यक्षेणोक्तं तथैवेति, स मत्वा तदतत्वरत् ॥५५।। स स्वस्थानं क्षणात्प्राप, दासी प्रादुर्बभूव सा । स तां सकङ्कणां वीक्ष्य, यक्षोक्ते विस्मितोऽभवत् ॥५६।। ४२२ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy