________________
सर्वदर्शनसङ्गीता, जीवरक्षा कृताऽमुना । यक्षेणेति मुदा लोकस्तदर्चातत्परोऽभवत् ॥३३।। इतश्च राजपुत्री सा, दैवज्ञवचनाऽऽकुला । मन्त्रिपुत्र्या ततः प्रोचे, बुद्धिं मे शृणु हे सखि ! ॥३४॥ सर्वभक्षाऽऽख्ययक्षोऽयं, कङ्कणं परिधाप्यते । तद्दासीत्वं तु दुःखाय, न स्याद्यदेवता ह्यसौ ॥३५।। इति मन्त्रिसुतावाचं, कामलेखाऽभिनन्द्य सा । तया सार्द्धं ययौ सायं, यक्षवेश्म सकङ्कणा ॥३६।। द्रागेष मण्ड्यतां यक्षः, कङ्कणेनेति तद्वचः । दासी निशम्य विज्ञाय, राजमन्त्रिसुते उभे ॥३७|| स्वहस्ते बन्धयिष्यामि, कङ्कणं सेति दास्यथ । अन्तःशुषिरयक्षाऽग्रहस्तं भक्त्वा प्रयोगतः ॥३८॥ यक्षदोर्मध्यगं स्वं तु, कराऽग्रं निरसारयत् । बबन्ध तत्करे राजपुत्री च कङ्कणं स्वयम् ॥३९॥ भूयास्त्वमेव मे स्वामीत्युक्त्वा सा ससखी ययौ । यक्षाऽग्रहस्तं दासी च, तथैव समयोजयत् ॥४०॥ ततो विद्याधरौ द्वौ च, यक्षवेश्माऽग्रमेत्य तौ । बहिर्मुक्त्वा विमानं च, यक्षोपान्तमथेयतुः ॥४१॥ एक: प्राह सखे ! कुन्दप्रभ ! त्वं वेत्सि वा न वा ? । कङ्कणाऽऽख्यानमाहाऽन्यो, रत्नाऽङ्गद ! न वेम्यहम् ॥४२।। ततो रत्नाऽङ्गदश्चख्यौ, किलैषा कङ्कणद्वयी । विद्याधरपतेर्दत्ता, तुष्टेनोरगभर्तृणा ॥४३॥ प्रभावश्चाऽस्या य एते, द्वे अलङ्कुरुते पुमान् । दक्षिणोत्तरश्रेण्योः स, वैताढ्ये प्रभुतां व्रजेत् ॥४४॥
जीवदयायां मन्त्रिदासीकथा ।
४२१