________________
ततश्च राक्षसः कश्चिद्दधावेऽत्तुमिमां द्रुतम् । प्राणभीत्या ननाशाऽऽशु, साऽप्येलानगरं प्रति ॥२१॥ किलाऽद्याऽपि हि रक्षस्तन्मामन्वेतीति भीतिभाक् । व्याघुट्यैलापुरप्रान्तवनेऽगाद्यक्षमन्दिरम् ॥२२॥ यक्षश्च सर्वभक्षाऽऽख्यः, शुषिरः पक्वमृन्मयः । ततस्तन्मूर्त्तिमुत्पाट्य, तदन्तः साऽविशद्भयात् ॥२३॥
अरुणोदयवेलायामथैका राजवल्लभा । दुग्धकुम्भानसौ स्नाने, यक्षमूर्ध्नि व्यलोठयत् ॥२४॥
यक्षाऽङ्गच्छिद्रैः परितः, क्षीरमन्तः पतत्तु सा । पायं पायमभूत्तृप्ता, दासी मध्येऽस्ति या भयात् ॥ २५॥
राजपत्नी च यक्षस्य, विलिप्तपूजितस्य सा । पुरतो महिषाऽऽऽ दीन्निहन्तुमादिशन्नरान् ॥२६॥
S
अथ सान्त:स्थिता दासी, दध्यौ मेऽभूद्यथा व्यथा । घातकाद्राक्षसात्तद्वत्, स्यादेषां प्राणिनामपि ॥२७॥ तत्किलाऽहमेव यक्षीभूता निवारयाम्यमूम् । इत्युचे प्रोच्चैः सा राज्ञीं, न वध्या मत्पुराऽङ्गिनः ॥२८॥ अतः परं च चेत्कोऽपि, मदग्रे प्राणिनः खलु । हनिष्यति हनिष्यामि, सकुटुम्बं तमाश्वहम् ॥२९॥ यतो मयाऽद्य विज्ञातं, तत्त्वं जीवदयैव हि । दुग्धस्नानाऽर्चनाऽऽद्यैश्च, प्रीतः कर्त्ताऽस्मि वः प्रियम् ॥३०॥
किल यक्षः स्वयं वक्ति, मत्वेति राजगेहिनी । भीता व्यसर्जयद्बध्यान्, यक्षं नत्वा च सा ययौ ॥३१॥
नित्यमभ्येत्य सा राज्ञी, दुग्धेन स्त्रपयत्यमुम् । तद्वल्लोकः किलाऽन्योऽपि, दासी सा त्वपिबत्पयः ||३२||
४२०
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।