________________
राजपुत्र्या ततः पृष्टो हासकारणमाह सः । कङ्कणं परिधाता या, तद्दासी त्वं भविष्यसि ॥९॥ परिधास्यति का त्वेनमिति राजसुतोदिते । एषा मन्त्रिसुतादासीत्याख्यत्तच्छ्रवणात् स तु ॥१०॥ तद्वाक्यप्रत्ययात् कामलेखाऽभूच्चिन्तयाऽऽकुला । क्रीडां मुमोच किञ्चोच्चैः, शुशोचात्मनमात्मना ॥ ११॥ घिग्मां या राजपुत्रीति, व्यपदेशमवाप्य हि । स्वदुष्कर्मपरीणामाद्दासीदासी तु भाविनी ||१२||
अहो ! असारता कीदृक्, संसारस्य दुरात्मन: ? । आत्मानो यत्र पच्यन्ते, मुहुर्दु: खहठाऽग्निना ॥ १३॥
अथवा - दुष्कर्मनिर्मितदुरक्षरदुर्ललाटवाचाटशासनशिलां शिरसा बिभर्षि । चेत्तत्प्रमाणवशतः प्रभवत्यनिष्टं, दोषः सकारितकृतः किमसारतायाः ? ॥१४॥
इति चिन्तापरां राजपुत्रीं विज्ञाय कारणात् । ऊचे मन्त्रिसुता मा स्म, शोचस्त्वं शृणु मद्वचः ॥१५॥
दासीमेनामुपायेन, हनिष्ये दोषदानतः ।
पश्चात्त्वं कथमेतस्या दास्या दासी भविष्यसि ? ||१६||
इत्यनुज्ञाप्य तां गेहे, ययौ दासीयुताऽचला । दास्याऽनयाऽत्र वस्त्वेतदात्तं स्यादित्यचिन्तयत् ॥१७॥
त्वयैतदात्तमित्येनां, घटसर्पमकर्षयत् । दोषवत्त्वादहिर्दासीं, ददंश सा ततोऽपतत् ॥१८॥ सा तामत्याजयन्नद्यां, नरात् सोऽपि कृपापरः । निम्बभारकमध्यस्थां, प्रावाहयदिमां जले ॥१९॥ पुण्यान्निम्बाम्बुयोगेन, सा जाता निर्विषा क्रमात् । लग्ना तीरश्मशाने च, निःसृता निम्बभारकात् ॥२०॥
जीवदयायां मन्त्रिदासीकथा |
४१९