________________
जीवदयायां मन्त्रिदासीकथा |
धर्मेषु प्रथमो धर्मः, प्राणिरक्षा यतस्तया । नीरोगः सर्वदा लोकोऽनुरागाच्छ्रीयते श्रिया ||१||
सत्यां दयायामन्ये स्युर्धर्मा वाञ्छितदायिनः । सति वह्नौ यदेधांसि, कर्त्तुमुद्योतमीशते ॥२॥ जीवरक्षावशाद्भव्यः, प्राप्नोतीष्टपदं भुवि । निर्वाणसम्पदोऽमुत्र मन्त्रिदासीव तद्यथा ॥३॥ अस्त्येला नगरं तत्र, राजाऽस्ति रिपुमर्दनः । यद्दानपद्मे राज्यश्रीर्यशोहंसश्च खेलति ||४||
तस्य राज्ञः सुताऽस्त्येका, कामलेखेति नामतः । तन्मन्त्रिमन्त्रसारस्य, पुत्री चाऽस्त्यचलाऽभिधा ॥५॥ बाल्यादपि तयो: स्नेह ऐकात्म्यप्रतिभूरभूत् । भुञ्जाते च रमेते च, शयाते च सहैव ते ||६|| सारिद्यूतेन खेलन्त्योरन्यदा ह्यनयोस्ततः । आकाशादचलादास्युत्सङ्गे कङ्कणमापतत् ॥७॥ तदुत्थाय तदुत्सङ्गाद्गृहीतं कामलेखया । ततो जहास दैवज्ञः, पुरासीनस्तदन्तिके ॥८॥
४१८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।