SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ इच्छामिथ्याद्यावश्यकेष्वनतिचारिताऽपि च [११] । मूलोत्तरगुणेष्वेवमतीचारविवर्जनम् [१२] ॥९॥ शुभध्यानस्य करणं, क्षणे क्षणे लवे लवे [१३] । शरीरचित्तसौस्थ्येन, यथाशक्ति तपोऽपि च [१४] ॥१०॥ अन्नादीनां संविभागो मन:शुद्धया तपस्विषु [१५] । आचार्याऽऽदीनां दशानां, वैयावृत्त्यं सुनिश्चितम् [१६] ॥११॥ सङ्घस्याऽपायविध्वंसात्, समाधिर्मनसोऽपि च [१७] । अपूर्वा ऽपूर्वज्ञानस्य ग्रहणं चित्तनिग्रहात् [१८] ॥१२॥ अश्लाघोच्छेदाच्छ्रद्धानाच्छ्रुतज्ञानस्य भक्तता [१९] । विद्याधर्मकथाऽऽद्यैश्च शासनस्य प्रभावना [२०] ॥१३॥ अप्येकं तीर्थकृन्नामकर्मणो बन्धकारणम् । मध्यादेभ्यः स पुण्याऽऽत्मा, सर्वैरपि बबन्ध तत् ॥१४॥ कालेन क्षपयित्वाऽऽयुर्व्रतद्रोः प्रथमं फलम् । विमानं वैजयन्ताऽख्यं स जगाम महातपाः ॥१५॥ ततश्च वैजयन्तस्थः, स जीवः पद्मभूपतेः । पूरयित्वाऽऽयुर्जातोऽस्मि भवेऽस्मिन्नेष तीर्थकृत् ॥१६॥ इति पूर्वभवौ स्वस्येत्युक्त्वाऽर्हन्नष्टमः क्रमात् । क्षेत्रे चन्द्रप्रभासाऽऽख्ये, तीरेऽब्धेः समवासरत् ||१७|| समवसरणाऽऽधानं, सर्वदेवैः कृतं ततः । सिंहासनमलङ्कृत्य, चक्रे स्वामीति देशनाम् ॥१८॥ पद्मनृपस्य कथाऽनुसन्धानम् । ४१७
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy