________________
यदादिशति मे स्वामीत्युक्त्वा वृद्धेन सोऽन्वितः । यद्रोचते तदभ्येत्य, गृह्णीतेत्याह मन्त्रिणम् ॥५७॥ स पौरलोकं राजानमादाय मन्त्रिराट् मुदा । ययौ कुमारगेहेऽथ, श्रीकान्तासक्तमानसः ॥५८॥ श्रीकान्ता मुमुदे तत्रोपागतं वीक्ष्य मन्त्रिणम् । ज्ञात्वा वृद्धश्च तद्भावं, श्रीकान्तामित्यभाषत ॥५९॥ वत्से ! रोदिति ते पुत्रस्तदादायैनमोकसः । ऊर्ध्वभूमौ क्षणं तिष्ठ, यावद्याति महीपतिः ॥६०॥ ततः कुमाराऽऽनुमता, श्रीकान्तोर्ध्वगृहे ययौ । मुमोचाऽन्यत्र निश्रेणि, वृद्धो बुद्धिसमृद्धिभाक् ॥ ६१ ॥ आसीने सजने राज्ञि, कुमारो वस्तुवेश्मनि । सर्वं चाऽदर्शयत् किन्तु, मन्त्री किमपि नाऽग्रहीत् ॥६२॥ केवलं वीक्षते तांस, श्रीकान्तां भ्रान्तया दृशा । पुरो रत्नसुवर्णादि, न मन्त्री द्रष्टुमिच्छति ॥६३॥ ज्ञात्वा कुतोऽपि गेहोर्ध्वभूमिस्थां तां स मन्त्रिराट् । प्राह दृष्टमधो वस्तु, पश्याम्युपर्यपि स्वयम् ॥६४॥ श्रीकान्ताग्रहणौत्सुक्याद्दोर्भ्यां निश्रेणिमादधत् । अधिरोढुं प्रवृत्तश्च, प्रोक्तो वृद्धेन मन्त्रिराट् ||६५|| किं करिष्यसि भो ! मन्त्रिन्नारुह्योर्ध्वभुवं यतः । द्वाभ्यां दोर्भ्यां प्राग् यद्ग्राह्यं सा निश्रेणिस्तवाऽभवत् ॥६६॥
नाऽन्यल्लभ्यं त्वया ह्यत्र, यदि पत्रप्रमाणता । द्वाभ्यां दोर्भ्यां यदात्तं, तद्ग्राह्यं तत्रेति निर्णयः ॥६७॥
श्रीकान्तां स जिघृक्षुश्च, वदन्नुच्चावचान्यथ निषिद्धो भूभुजा पत्रप्रामाण्यात् सचिवस्ततः ॥ ६८॥
३८८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।