________________
आस्तामुद्गम्य विस्तारोऽभूदङ्करोद्गमोऽपि न । नोच्छ्वासोऽपि मृदः क्वाऽपि, यतो बीजविपर्ययः ॥४५।। भूयो भूयः कुमारोऽथ, सिञ्चते वीक्षतेऽभितः । अङ्कुरमपि न क्वाऽपि, पश्यन्नासीद्विलक्ष्यवाक् ॥४६।। राजन् ! पश्य कुमारस्य, सत्यतामिति मन्त्रिणा । प्रोक्ते जहास राजाऽथ, लोकोऽपि दत्ततालिकः ॥४७।। कथं नु नोद्गतानीह, द्राक्षाबीजानि तान्यपि ? । इति विस्मयमापन्ने, कुमारे सचिवोऽब्रवीत् ।।४८।। राजन् ! पत्रप्रमाणेन, हस्तग्राह्यं गृहेऽस्य यत् । तन्मे दापय यल्लोकप्रत्यक्षं स्वगृहं नये ॥४९॥ सचिवोक्त्यनुसारेण, कुमारोऽथाऽविदत्त्विदम् । मत्कान्तायामसौ लुब्धस्तामेवाऽभिलषत्यतः ॥५०॥ अनेन प्रार्थिता मन्ये, चक्रे बीजविपर्ययम् । श्रीकान्तैव सुरक्ताऽस्मिन्, बीजानि नोद्गतान्यतः ॥५१॥ धिग् धिग्मां येन तिस्रोऽपि, वृद्धशिक्षा हि विस्मृताः । सत्येनाऽनुभवो मेऽभूदकृते वृद्धभाषिते ॥५२।। ततोऽधुनैव तं वृद्धमाहूय प्रश्नयाम्यहम् । यथा मन्त्री न मे कान्तां, गृह्णाति छललाभतः ॥५३।। इत्यसौ मानुषं किञ्चित्, प्रहित्याऽकारयच्च तम् । न्यवेदयच्च तं तस्मै, मन्त्रिवृत्तान्तमात्मना ॥५४॥ मा भैषीरिति वृद्धेन, सम्यगङ्कीकृते ततः । कुमारः प्राप च स्वास्थ्यं, का भीर्धीमति रक्षके ? ॥५५।। उत्सुकः प्राह मन्त्री च, राजन् ! किं नु विलम्ब्यते । आदिदेश ततो राजा, कुमारं त्वर्यतामिति ॥५६।।
दौःशील्ये श्रीकान्ताकथा ।
३८७