________________
एनं विजित्य चेदेनां, गृह्णे तच्चारु मे भवेत् । दुष्टोऽभिलाषवान् प्राह, मिथ्याऽयं भाषते वणिक् ||३३||
कुत्राऽप्येतद्भवेद्राजन् !, बीजान्युप्तानि तत्क्षणात् । उद्गच्छन्ति विस्तृणन्ति, पुष्यन्ति च फलन्ति च ॥३४॥ राजा प्राह कुमार ! त्वं, ब्रूषे दृष्टं श्रुतं नु वा ? | स प्राह तन्मया दृष्टमनुभूतं च भूपते ! ||३५|| बीजानि नित्यशो मार्गेऽप्युप्त्वाऽकार्षं हि भोजनम् । एषु विस्तृतच्छायेषु, ततोऽस्वाप्तं फलान्यदन् ||३६|| सहाऽऽनीतानि बीजानि सन्ति मुक्तानि वेश्मनि T दर्शयिष्यामि दृष्टान्तं, कार्यो नैवाऽत्र संशयः ||३७| अथाऽऽह मन्त्री चेद्राजन् !, स्वां सन्धां पूरयेदयम् । यत्प्राग्गृहीतं तद्दोर्भ्यां, द्वाभ्यां ग्राह्यं हि मद्गृहात् ॥३८॥ अन्यथा तु मया ग्राह्यमिष्टं वस्त्वस्य मन्दिरात् । ततश्चोभयसाम्मत्यात्पत्रमलेखयन्नृपः ||३९||
मन्त्री प्रच्छन्नपुरुषाच्छ्रीकान्तापार्श्वतः क्षणात् । व्यत्ययात्तानि बीजानि, तदैवाऽऽनाययत्ततः ॥४०॥ मन्त्र्यभिप्रायस्याऽविज्ञः, कुमारः प्रैषयन्नरम् । आनेतुं तानि बीजानि, श्रीकान्तां सोऽप्ययाचत ॥४१॥ साऽन्यबीजानि निक्षिप्य, ग्रन्थिबद्धं तथैव तम् । नरायाऽऽर्पयदेषोऽपि, कुमारायाऽऽर्पयद्द्द्रुतम् ॥४२॥
ततश्चाऽऽस्थानशालायां, निक्षेप्य मृत्तिकां भुवि । क्षिप्त्वा बीजानि तत्रैष, सिषिच स्वादुभिर्जलैः ॥४३॥ राज्ञि लोके च सौत्सुक्यं, पश्यति द्रुतमेव सः उपर्यकारयद्वंशमण्डपं विस्तृतिप्रदम् ॥४४॥
३८६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।