________________
वीक्ष्योपलक्षितः सोऽथ, कुटुम्बेनाऽश्रुमोचिना । प्रहाराऽऽत्र्तोऽपि पप्रच्छ, रोगो मातुर्बभूव कः ? ॥२१॥ सम्भ्रमाद्गृहलोकस्तं, प्रोचे किमेतदुच्यते ? । सुप्ता माताऽस्ति गेहाऽन्तर्नाऽस्या रोगः कदाऽप्यभूत् ।।२२।। केनाऽपि कथिता माता, मृता तेनेत्युदीरिते । लोकः प्राह मृता कर्मकरी मातेति योच्यते ॥२३॥ जागरित्वा ततो माता, ददत्याशिषमुच्चकैः । तमेत्यायतबाहुभ्यामाश्लिष्याऽङ्के न्यवेशयत् ।।२४।। कुमारोऽपि समीक्ष्य स्वां, मातरं मुदमीयिवान् । यावदास्ते ततः कोऽपि, समेत्यैवमचीकथत् ।।२५।। पण्यं सर्वं हि पाश्चात्त्यं, गृहीतं तस्करैर्बलात् । किञ्चिदेतन्मयाऽऽनीतं, गृह्णीतेत्यार्पयत् पुमान् ॥२६।। कुमारोऽपि महाकष्टात्, प्राप्तं गतं च वीक्ष्य तत् । पूर्वाऽर्जितानि कर्माणि, बलवन्तीत्यमन्यत ॥२७॥ आगाद्गृहे च यद्वस्तु, श्रीकान्तायै तदापर्यत् । किञ्चिद्रूढप्रहारश्चाऽभूद्राजदर्शनोन्मनाः ।।२८।। प्राभृतं किञ्चिदादाय, स ययौ नृपसंसदि । कृतप्रणामश्चोचितस्थाने पुर उपाविशत् ॥२९॥ राज्ञा पृष्टः कुमारः स्वं, यथावृत्तं व्यजिज्ञपत् । अथाऽऽह राजा किञ्चिद्भो !, दृष्टं देशेषु कौतुकम् ? ॥३०॥ कुमारः प्राह नाथै, दृष्टवानस्मि कौतुकम् । द्राक्षा यदैव चोप्यन्ते, तत्कालं च फलन्त्यमूः ॥३१।। मन्त्री कटप्रपञ्चाख्यः, कमारभार्यया सह । क्रीडत्युपपतित्वेन, नित्यं तद्रक्तमानसः ॥३२॥
दौःशील्ये श्रीकान्ताकथा ।
३८५