SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ जोच्चक्रेऽथ कुमारोऽपि, ज्यायांसं वार्द्धकेन तम् । पृच्छद्यथाऽन्वहं तस्मादुपदेशान् स्वबुद्धये ॥९।। एवं च तौ सहाऽऽयान्तौ, मार्गोत्थप्रतिबन्धतः । पितृपुत्रममत्वेन, गृहीतौ क्रमशो मिथः ॥१०॥ लक्ष्मीवासपुरासन्ने, ग्रामे वृद्धो वसत्यसौ । सम्भाष्य स्वं व्रजन् ग्राम, कुमारेणाऽन्वयुज्यत ।।११।। पितः ! कथय मे बुद्धिं, सर्वाऽपायाऽपकारिणीम् । ततः स प्राह वत्स ! त्वं, शृणु ते किं न कथ्यते ? ॥१२॥ पुरे प्रविशता शुद्धिः, प्रष्टव्या न स्ववेश्मनः । पश्चात्त्यक्त्वा त्वया पण्यं, प्रवेष्टव्यं पुरे नहि ॥१३॥ न विश्वासः कलत्रे च, कार्योऽथेति मतित्रयम् । कुर्यास्त्वं किञ्चिद्दुःसाध्ये, त्वमागच्छेर्मदन्तिकम् ॥१४॥ उपदिश्येति वृद्धोऽसौ, ययौ स्वं ग्राममेष तु । कुमारः स्वपुरोपान्तेऽद्राक्षीत् परिचितं नरम् ॥१५॥ कुटुम्बकौशलोत्कण्ठाऽवज्ञातवृद्धवाग् द्रुतम् । तमुपसृत्य पप्रच्छ, गृहे क्षेमोऽस्ति मामके ? ॥१६॥ मृता माता त्वदीयेति, तेनोक्ते दुःखभागसौ । पश्चात्त्यक्त्वा च भाण्डं स्वमत्वरिष्ट गृहं प्रति ॥१७।। निशीथे स ययौ बद्धद्वारं सुप्तजनगृहम् । उच्चैः शब्दांस्ततश्चक्रे, जजागार न कोऽपि तु ॥१८।। उपरि वाटकेनाऽप्यौत्सुक्यादेष चटन्नथ । स यामिकेन विज्ञातः, किं नु चौरश्चटत्यसौ ? ॥१९॥ तेनाऽऽहतः स भल्लेन, कुमारोऽधः पपात च । सम्भ्रमाच्च जजागार, गृहलोकोऽखिलोऽपि हि ॥२०॥ ३८४ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy