SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ दौःशील्ये श्रीकान्ताकथा । स्त्रियः परनरत्यागोऽन्यस्त्रीत्यागो नरस्य तु । अगारिणामिदं शीलं, भवेद्दुःशीलताऽन्यथा ॥१॥ सर्वथा शीलविध्वंसान्मानग्लानिर्भवेदिह । परत्र नरकाऽवाप्तिः, श्रीकान्ताया इव ध्रुवम् ॥२॥ अस्तीह भरतक्षेत्रे, लक्ष्मीवासेति पूर्वरा । नित्यं वसन्त्या लक्ष्म्याऽत्र, चक्रे यन्नाम सार्थकम् ॥३॥ तत्राऽभूच्छीपती राजा, यत्पादस्थाऽम्बुजस्थितेः । श्रियः प्रसादनायेव, यं नेमुर्भूस्पृशोऽरयः ॥४॥ तत्र धर्मधनोपायव्यवसायकृतोद्यमः । वणिगस्ति कुमाराख्यः, श्रीकान्ताऽस्याऽस्ति गेहिनी ।।५।। द्रव्येण गौरवं लोके, द्रव्येण ख्याप्यते कुलम् । द्रव्येण मित्रसम्पत्तिधर्मो द्रव्येण गेहिनाम् ॥६।। इति तदर्जनाहेतोः, कुमारः सार्थसंयुतः । ययौ देशान्तरं तत्र, स्थितः स द्रव्यमर्जति ॥७॥ यथेष्टद्रव्यसम्पूर्ती, चचाल स्वपुरं प्रति । आगच्छन् स ददशैंकं, वृद्धमायान्तमध्वनि ॥८॥ दौःशील्ये श्रीकान्ताकथा । ३८३
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy