________________
मन्त्रिपुत्र्या वचस्तच्चोररीकृत्य सगौरवम् । ददती चाऽभयं नृणां, देवता स्वाऽस्पदं ययौ ॥६९॥ शीलं प्रपाल्य सा मन्त्रिपुत्री प्रापाऽऽयुषः क्षयात् । शीलशीताग्निदग्धानां कर्म्मणां पल्लवं दिवम् ॥७०॥ इति मन्त्रिसुताऽऽख्यानं, श्रुत्वाऽऽत्मपरशर्मदम् । यथाशक्त्याऽपि शुद्धात्मा, पालयेच्छीलमुत्तमम् ॥७१॥ ॥ इति शीले मन्त्रिपुत्रीकथा ||
३८२
~4~
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।