________________
मम तीर्थकरो भर्तृशब्दवाच्यस्तु नाऽपरः । स्वर्णादिमण्डनेभ्योऽपि, चारु शीलं च मण्डनम् ॥५७॥ इति युक्तिपरैर्वाक्यैः सम्बोध्य पितरं निजम् । सुशीलं पालयत्येषा, तपःस्वाध्यायपोषितम् ॥५८॥ अन्येद्युस्तत्पुरक्ष्मापपुत्राश्चापल्यशालिनः । बभञ्जुर्मूलत: पद्रदेवताया वनद्रुमान् ॥५९॥ तद्दृष्ट्वा ज्वलिता कोपात्तृणानीव दवः पुरा । भस्मसादकरोत्तूर्णं, साऽपि तानपराधिनः ॥६०॥
राजपुत्रापराधेन, सोपदुद्राव तत्पुरम् । वात्याभिर्वृष्टिभिर्लेष्टुपातैः सातत्यपातिभिः ॥६१॥
राज्ञा लोकेन चाऽत्यन्तं, सान्त्वमानाऽपि नित्यशः । न तस्थावुपद्रवन्ती, नित्यनव्यैरुपद्रवैः ||६२||
अन्येद्युः सचिवं चिन्ताप्रपन्नं दृष्ट्वाऽऽह तत्सुता । पुनः किं तात ! चिन्तेयमित्युक्तः सोऽप्यभाषत ॥ ६३॥ वत्से ! न वेत्सि किं पद्रदेवतां कुपितां पुरे । ततस्तत्सान्त्वनोपायव्यामूढोऽस्मि विचिन्तया ॥६४॥ शीलवत्यसि वत्से ! त्वत्प्रभावात्साऽपि शाम्यति । तत: कुरु दयां लोके, दुष्टोपद्रवरक्षणात् ॥६५॥ इत्युपरोधिता पित्रा, सा तामुद्दिश्य देवताम् । कायोत्सर्गं तपः पूर्वं चक्रे मन्त्रिसुता ततः ॥६६॥ लोहवच्चुम्बकग्राव्णा, तेनाऽऽकृष्टाऽथ देवता । आगमन्नभसा लोकप्रत्यक्षं साऽपि तत्पुरः ॥६७॥ कृत्वाऽञ्जलिमुवाचैवं, मन्त्रिपुत्रि ! करोमि किम् ? । साऽप्यूचे मा कृथा लोकस्योपसर्गान् कदाचन ॥६८॥
शीले मन्त्रिपुत्रीकथा |
३८१