________________
व्यग्रत्वात्पूर्वसङ्ख्यार्द्धश्लोकान् कृत्वा ययौ नृपम् । स्खलन् पपाठ तांश्छन्दोऽलङ्कारैरपि दूषितान् ॥४५॥ अर्द्धे दोषजुषः श्लोकास्त्वयाऽपठ्यन्त कोविद ! | ब्रुवन्नेवं ददौ पूर्वस्वर्णार्द्धं सचिवः कवेः ॥४६॥ लज्जमानः सभाया: स, सङ्कुच्य श्वेव निर्ययौ । गत्वा च खेदमापन्नः, सौधाऽऽरम्भमकारयत् ॥४७॥ आह्वत्सोऽथ कर्मकरान्, प्रातरुत्थाय नित्यशः । स्वयं तत्र स्थितः कर्म कारयन् प्रकरोति च ॥४८॥ अथ सा तत्प्रिया गेहोपयोगिवस्तुसञ्चयान् । अभीक्ष्णमानाययन्ती, विद्वांसं निरवेदयत् ॥४९॥ अथ क्रमाद्धीयमानान्, श्लोकान् कृत्वा स नित्यशः गच्छन्नृपास्पदं क्षुद्रैर्विपक्षैरुपहस्यते ॥५०॥
अथ - यो दृष्ट्वा यत्र सन्मानं, न्यक्कारं तत्र पश्यति । श्वेव लेहनलुब्धो हि, स लोभी पुरुषाधमः ॥५१॥ किञ्च– गृहव्यापारमग्नस्य, शास्त्रबुद्धिः प्रणश्यति । नीवीव विदुषामेषा, तद्भ्रशाद्वर्तनं कुत: ? ॥५२॥ अन्येद्युश्चिन्तयित्वैवं, स विद्वान् खिन्नमानसः । त्यक्त्वा भार्याद्यकार्षीद्यः, पलायते स जीवति ॥५३॥ ज्ञात्वाऽथ मन्त्रिणः पुत्र्या, कविं निश्चयतो गतम् । ततो विज्ञापितो मन्त्री, स तां स्वगृहमानयत् ॥५४॥ आपूर्वान्त्यदिनारम्भाद्यदात्तं तेन काञ्चनम् I तत्सर्वमर्पयन्ती साऽमात्यं चक्रेऽतिहर्षितम् ॥५५॥
अन्येद्युर्जल्पितापित्रा, सत्योद्वहनहेतवे । सा प्राह न भवेत्तात !, पुनरुद्वहनं मम ॥५६॥
३८०
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।