SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ नाथेत्थं कुर्वताऽनेनाऽमूल्यकाव्यानि नित्यशः । रञ्जितोऽस्मि ततः स्वामी, मत्पुत्र्याऽस्य प्रसीदतु ॥३३॥ अथोचे नृपतिर्मन्त्रिन् !, युक्तमर्थं प्रभाषसे । विदुषी त्वत्सुता विद्वानेषोऽस्त्वर्थोऽयमीप्सितः ॥३४॥ पृष्टा ज्योतिर्विदः सर्वे, लग्नं गोधूलिकं ददुः । तदैव सचिवः पुत्र्या, विद्वांसं पर्यणाययत् ॥३५॥ प्राह बद्धाञ्जलिर्मन्त्री, विद्वन्नेषा तव प्रिया । गृहाणैनां गृहं गच्छ त्वं क्षेमेण सहाऽनया ||३६|| गृहीत्वाऽथ स तामेकां, चिन्तामिव शरीरिणीम् । ययौ देवकुले क्वाऽपि, प्रणामायेव सत्वरम् ॥३७॥ अथ देवं नमस्कृत्य, सोचे चलत वेश्मनि । सलज्जमूचे सोऽस्माकं, वेश्मेदं नाऽन्यदस्ति हि ||३८|| अथ सा कुपितेवाऽऽह, कदाचित् खादको भवान् । यन्नित्यं लभमानोऽपि, स्वर्णं नाऽकारयद्गृहम् ॥३९॥ नाऽहं स्थास्यामि खल्वत्र, नटभण्डविटाऽऽलये । द्विभूमं ननु मद्योग्यं, सौधं कारय सत्वरम् ॥४०॥ अथ स प्राह नो तावत्सौधं निष्पद्यते क्षणात् । तिष्ठैनां रात्रिमत्रैव, तत्प्रातः कारयिष्यते ॥ ४१॥ इत्थं सम्बोध्य तां जाग्रन्निशि तस्थौ स चिन्तया । अथोत्थाय च रात्र्यन्तयामेऽगाच्छ्रेष्ठिनो गृहम् ॥४२॥ द्वारेऽतिष्ठत्तावद्यावदुत्तस्थौ श्रेष्ठपुङ्गवः । क्रीतं च श्रेष्ठिनस्तस्मात्तेन वेश्मतलं धनैः ॥४३॥ तदैव स कटान् क्रीत्वाऽऽसितुं स्थानमकारयत् । ततो देवकुलान्मन्त्रिपुत्रीं तत्र समानयत् ॥४४॥ शीले मन्त्रिपुत्रीकथा । ३७९
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy