________________
तात ! जल्पत किं चिन्ता, युष्माकं दुःखदायिनी ? । किं चुकोप नृपः ? किं वा, दुःसाधः कश्चिदस्ति वः ? ॥२१॥ स्मित्वाऽथ सचिवः प्राह, दुःसाधोऽरिर्भवेद्यदि । किं करोषि ? ततः साऽऽह, धीदा स्यां तस्य साधने ॥२२॥ लघोरपि भवेबुद्धिः, सा यया जीयते जगत् । प्रत्युत्पन्नमतिः प्रायो, लघ्व्यपि स्त्री विशेषतः ॥२३॥ इति ध्यात्वा ततो मन्त्री, पुरः पुत्र्यास्त्वचीकथत् । वृथैव गृह्णतः स्वर्णं, वृत्तान्तं तस्य धीमतः ॥२४।। अथोचे सा त्यक्त्वा चिन्तां, तात ! जेमत सम्प्रति । अर्थः साध्योऽसाध्यो वाऽयं, पश्चात्करिष्यते मया ॥२५॥ अमात्यः प्राह मद्वत्से ! मह्यं चेत्कथयिष्यति । तत्साधनधियं नूनं, ततो भोक्ष्यामि नाऽन्यथा ॥२६॥ साऽप्येवमब्रवीत्किञ्चिन्यञ्च्य स्वाऽऽस्यं च लज्जया । ताताऽलीकं सहाऽनेन मामुपायमयत्विति ॥२७।। कुर्वे पश्चात्तु तत्किञ्चिद्येन गृह्णाति नो नवम् । मुञ्चत्यात्तं पुराद्याति, सोऽत्र तिष्ठाम्यहं पुनः ॥२८।। तयेत्थमुदिते हृष्टः, प्राह मन्त्री भवत्विदम् । तदैव च तया सार्द्धमकार्षीभोजनं ततः ॥२९॥ सर्वान् सङ्केत्य दैवज्ञान्, द्वितीयेऽयथ सत्वरम् । ययौ राजकुलं भूपं, नत्वा मन्त्री समाविशत् ॥३०॥ अथाऽऽकृष्ट इवाऽपुण्यैः, स सुधीपमाययौ । पठित्वा तावतः श्लोकानासने सोऽप्युपाविशत् ॥३१।। तुष्टेन भूभुजा हर्षान्मन्त्रिसम्मुखमीक्षिते । कृत्वाऽञ्जलिमुवाचाऽयं, प्रत्यक्षं सर्वसंसदः ॥३२॥
३७८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।