________________
सोऽप्यागाद्विबुधस्तत्र, ज्ञम्मन्यो नृपसंसदि । उपाश्लोकिष्ट श्लोकानामष्टोत्तरशतेन तम् ॥९॥ छन्दोऽलङ्कारदोषज्ञैर्मनीषिभिरदूषितान् । श्रुत्वा श्लोकान् नृपः स्वाऽर्द्धासनेऽथ तं न्यवीविशत् ॥१०॥ उवाच च महीनाथः, कुतः कूर्चालभारती । स प्राह मध्यदेशात्ते, विदुषो द्रष्टुमागमम् ॥११॥ तस्य तर्काऽञ्चिता वाचः, श्रुत्वा तेऽन्ये मनीषिणः । भयात् सञ्चुकुचुर्युद्धतूर्याणीव हि कातराः ॥१२॥ ततो हर्षान्नृपः श्लोका, यावन्तस्तावतः खलु । स्वर्णाच्छान् दापयामास, प्रथमेऽहन्यस्य गौरवात् ॥१३॥ यावतः पठति श्लोकान, बुधोऽयं तावतो भवान् । दद्यात् स्वर्णाच्छानस्येति, मन्त्रिणं प्रादिशच्च सः ॥१४॥ पठित्वा तावतः श्लोकान्नित्यं गृह्णाति काञ्चनम् । भुङ्क्ते स यत्र तत्राऽपि, शेते देवकुलेषु तु ॥१५॥ अथ वदान्यो राजाऽयं, नव्यकाव्यविधिबुधः । सर्वदा दीयमानस्तु, स्वर्णशैलोऽप्यणूयते ॥१६॥ अहं निवारयाम्येनं, यदि स्यादुर्मना नृपः । तत्कस्मादमू रक्ष्येतां, स गृह्णन् दापयन्नृपः ।।१७।। इति चिन्ताकुलो मन्त्री, तयेव हृदि शल्यितः । शेते नैव न वा भुङ्क्तेऽनयेवातिभृतोदरः ॥१८।। अथाऽन्यदा गृहं गत्वा, सिंहासनमुपाविशत् । नाऽकार्षीद्भोजनाद्यं स, केवलं भुवमैक्षत ॥१९॥ अथैका तत्सुता लघ्वी, तदङ्कमुपविश्य सा । धृत्वा कूर्च च हस्ताभ्याममात्यमित्यभाषत ॥२०॥
शीले मन्त्रिपुत्रीकथा ।
३७७