________________
वृद्धः प्राह प्रभोऽनेन, प्रोक्तमासीदिदं किल । यद्ग्रहीष्यामि तल्लोकप्रत्यक्षं नेष्यते गृहे ॥६९।। तदेनं नायय क्षिप्रं, निश्रेणिं दोभृतां गृहे । न्यायं पालयता राज्ञा, मन्त्री तत्कारितो बलात् ।।७०।। कुमारेण ततो राजा, सम्मान्य प्राभृतेन सः । विसृष्टोऽगान्निजं सौधं, लोकोऽन्योऽपि तथैव हि ॥७१।। कुमारेण स वृद्धोऽपि, प्रेषितोऽभ्यर्च्य वस्तुभिः । ज्ञाताऽस्म्यहमनेनेति, श्रीकान्ताऽमर्षमादधौ ॥७२।। दत्त्वा विषं कुमारं सा, मारयामास निष्कृपा । आसक्ता सचिवेऽथाऽभूच्छीकान्ता दुष्पतिव्रता ॥७३॥ दौःशील्यलौल्यविहितपतिमारणपापतः । प्राप्य दुःखं भवेऽत्रैव, श्रीकान्ता नरकं ययौ ॥७४।। ततश्च येन लोकेऽस्मिन्निन्दा स्यादात्मनश्चिरम् । तद्दौःशील्यं त्यजेद्विद्वानिच्छन् शाश्वतिकं सुखम् ॥७५॥
इति दौःशील्ये श्रीकान्ताकथा ॥
दौःशील्ये श्रीकान्ताकथा ।
३८९