________________
ततः सम्पद्यते चर्म, समर्थं प्रचुरं च तत् । इति चिन्ताऽभवज्जीवहिंसापापो मया ततः ॥ ३३॥ चण्डालवद्बहिर्गेहाद्भोजितः क्रूरमानसः । न पाप्मभिर्गृहं स्पर्शयितव्यं निजमुत्तमैः ||३४|| इदानीं युवयोर्जातश्चित्तचिन्ताविपर्ययः । ततो मयाऽपि चक्रे वां, प्रतिपत्तिविपर्ययः ||३५|| इति तस्या वचः श्रुत्वा, दृष्ट्वा स्वस्मिश्च तत्क्रियाम् । पण्येन सह मार्गे तौ, चेलतुः शीघ्रगामिनौ ॥३६॥ कियत्यपि गते मार्गे, ताभ्यामैक्षत केवली । सुराऽसुरसभायां स, विदधद्धर्मदेशनाम् ॥३७॥ कौतुकात्तावपि गतौ तं नमश्चक्रतुर्मुदा । आसीनौ शुश्रुवाते च, दाने केवलिदेशनाम् ॥३८॥ पप्रच्छ धनदो ज्ञानिन् !, लाभो मे भविता न वा ? । ज्ञानी प्राह न धर्मस्य, भावी लाभोऽर्थलाभवत् ||३९|| श्रुत्वेति तौ समुत्थाय, स्वग्रामं प्रति चेतुः । प्राप्तौ च क्रमशः क्षेमात्, स्वं ग्रामं तौ मुदावृतौ ॥४०॥ इतश्च केचिदाचार्याः साधुसिन्धुरबन्धुराः । तद्ग्रमासन्नमुद्यानमलञ्चकुः सुशुद्धितः ॥४१॥ दैवादेकस्य तत्साधोः, कायोत्सर्गात्तपस्यतः । क्रूरेण केनचिद्दत्तः, प्रहारोऽङ्गे महात्मनः ||४२|| शरीरे निःस्पृहः साधुर्विषेहे तद्व्यथामथ । क्रमेण प्रसृतो घातः, पाकेन कुथितोऽभवत् ॥४३॥ अन्यदा श्रावकः कोऽपि, वैद्यः साधुं ददर्श तम् । अहो ! साधोर्महत्कष्टमित्यसौ खेदमासदत् ॥४४॥ सूरीनुपेत्य स प्राह, प्रभो ! वैद्योऽस्म्युपासकः । परं दरिद्रस्तन्नाऽस्ति, मद्वेश्मनि घृतौषधम् ॥४५॥
३७४
"
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।