SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ उपविश्याऽऽसने पादौ, क्षालयन्तौ तु रन्धनी । पप्रच्छ कुत्र गन्तव्यं, व्यवसायेन केन च ? ॥२१॥ एकेनोक्तं प्रयास्यामि, घृताय श्रीकुले पुरे । परेणोक्तं तदेवाऽहं, चर्मक्रीते गमी खलु ॥२२।। रन्धन्या च ततो यो हि, घृतक्रीतः स वेश्मनः । मध्येऽथ भोजितो भक्त्याऽपरस्त्वनादराबहिः ।।२३।। बहिरन्तः किमावां हि, प्रतिपत्तिविभेदतः । भोजितावनयेत्यादि चिन्तयन्तौ गतौ पुरे ॥२४॥ एकेन च घृतं क्रीतं, चर्माऽन्येन यदृच्छया । पश्चाद्व्याववृताते तौ, पृथक् चिन्ताऽऽकुलौ ततः ॥२५।। तस्मिन्नाजग्मतुर्गामे, भूयोऽपि वरकोऽर्पितः । तस्याऽस्तु वृद्धरन्धन्या, तया निष्पाद्य तौ ततः ॥२६।। यः पुराऽन्तर्गृहं भक्त्या, भोजितस्तं बहीकृतम् । मध्येकृत्य द्वितीयं तु, भोजयामास रन्धनी ॥२७॥ ततस्तौ विस्मयाऽऽपन्नौ, पप्रच्छतुर्मिथोऽपि ताम् । मातर्विभेदः कोऽयं नौ, गत्यागत्योः कृतस्त्वया ? ॥२८।। अथ सा प्राह वृद्धस्त्री, वत्सौ ! शृणुतमादरात् । यः पूर्वं हि घृतक्रीती, तस्य चेतस्यभूदिति ॥२९।। घृताय यत्र यास्यामि, स्युर्गावस्तत्र चेदृढाः । तदा सम्पद्यते शीघ्रं, समर्थं च घृतं भवेत् ॥३०॥ इत्यभिप्रायशुद्धस्त्वं, गच्छन्नासीः पुरा ततः । शुभां चिन्तां मया ज्ञात्वा, प्रतिपत्तिः कृता तव ॥३१॥ यश्चर्मग्राहकस्तस्य, चित्तेऽभूत् कल्मषं त्विदम् । गच्छन् यत्राऽस्मि चेत्तत्र, विपद्यन्ते चतुष्पदाः ॥३२॥ अदाने कुरङ्गकथा । ३७३
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy