________________
प्रमाणं पौरलौकेषु, प्रधानं राज्यसंसदि । तद्वर्यास्ते किलाऽतीव, ख्यातिपात्रं जनेऽभवन् ॥९॥ कुरङ्गस्तु पुरोपात्तदुष्कर्मस्फुटदुर्दशः । व्यवसायाच्छ्रियं नैव, प्राप्नोति नाऽन्यतोऽपि हि ॥१०॥ स्वभ्रातृभ्यः पितृव्येभ्यो, ज्ञातिभ्यश्च सुदीनवाक् । याचित्वा भोजनाऽऽदीनि, प्राणवृत्तिं करोत्यसौ ॥११।। भूयो याचन् निषिद्धस्तैर्मा गास्त्वमस्मदोकसि । यो हि यस्मात् पृथक् सत्यं, सैष तस्य मृतः खलु ॥१२॥ तिरस्कृतः स तैरेवं, निन्दन्नात्मानमुच्चकैः । स्वदुष्कर्मपरिपाकाद्विषण्णोऽचिन्तयद्धृदि ॥१३॥ ममैते स्वजनाः सर्वे, निजपुण्यसमर्द्धयः । अन्येषामुपकुर्वन्ति, न मे दीनगिरोऽपि हि ॥१४॥ यद्यत्कर्म प्रपद्येऽहं, तत्तत् स्याद्धानये खलु । तद्यामि क्वाऽपि देशेऽथ, नाऽत्राऽलं स्थातुमस्मि यत् ॥१५॥ इत्यालोच्य व्रजन् क्वाऽपि, साधुमेकं ददर्श सः । तं पप्रच्छ प्रणम्यैष, पूर्वजन्मस्थिति निजाम् ।।१६।। अथाऽऽख्यज्ज्ञानवान् साधुस्तस्य वैराग्यहेतवे । अस्ति ग्रामः सुसीमाऽऽख्यः, समृद्धजनवासितः ।।१७।। तत्राऽभूतां मिथः स्निग्धौ, सुहृदौ प्रतिवेशिनौ । धनदधनपुञ्जाऽऽख्यौ, व्यवसायाऽर्जितश्रियौ ॥१८।। अन्यदा द्रव्यमादाय, दूरदेशं प्रतीयतुः । द्विप्रहाँ कदाऽप्येतो, ग्रामे क्वाऽपि गतौ ततः ॥१९॥ अर्पितो वरकस्ताभ्यां, रन्धन्या वृद्धयोषितः । प्रगुणीकृत्य साऽप्येतावाह्वदुल्लापनैर्मृदु ॥२०॥
३७२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।