________________
अदाने कुरङ्गकथा ।
यस्तु दद्यान्न पात्रेऽपि, दानं सत्यपि वस्तुनि । स किं समीहते भोगान्, दानप्राप्यान् भवोचितान् ? ॥१॥ यन्न सम्पद्यते सम्पत्, सांसारिकसुखं न यत् । पूर्वे जन्मनि तद्दानं, दत्तं पात्रेऽपि नाऽङ्गिभिः ॥२॥ पूर्वे जन्मन्यदातारो, याचितारः स्युरत्र ते । दीना हीनाश्च ते माः , सहन्ते हि पराभवम् ।।३।। कृतं हि दुष्कृतं दानाच्छाम्यतीव जलाद्रजः । पापी दानं न दत्ते चेत्तद्यात्यधः कुरङ्गवत् ॥४॥ अस्त्यास्तिकजनस्वाऽन्ताऽऽसीनश्रद्धारिरंसया । गुप्ता गतसदाऽधर्मा, सुशर्मा नाम पूर्वरा ।।५।। गीर्वक्तृत्वकवित्वाभ्यां, श्रीर्दानभोगभागतः । सफला यस्य सोऽस्तीह, राजा मृगाङ्कमण्डनः ॥६।। तत्र चाऽऽढ्यकुलोत्पन्नः, कुरङ्गाऽऽख्यो वणिक्सुतः । अस्ति कर्मविपाकेन, दारिद्र्योपद्रुतः सदा ॥७|| पितृव्या भ्रातरस्तस्य, ज्ञातयोऽपि महर्द्धिकाः । पुण्योपात्तां श्रियं दानभोगाभ्यामुपभुञ्जते ।।८।।
अदाने कुरङ्गकथा ।
३७१