________________
घृतमत्र दुरापं च, तदस्ति धनदौकसि । याचयित्वा भवन्तश्चेदानाययन्त्यहं ततः ॥४६।। घृतमिश्रौषधैः सम्यक्, चिकित्सामि तपस्विनम् । रक्षणीयं शरीरं यत्, सत्यस्मिन् वर्द्धते तपः ॥४७॥ साधोश्चिकित्सया पुण्यं, ममाऽपि स्यादभीष्टकृत् । इत्युक्ताः सूरयस्तेन, प्रेषयन्ति मुनिद्वयम् ॥४८॥ आदेशेन गुरोर्गत्वा, तौ मुनी धनदं प्रति । ग्लानवृत्तान्तमाख्यायौषधायाऽयाचतां घृतम् ॥४९॥ कार्पण्याद्गतदाक्षिण्यभावनादाननिष्ठुरः । स मुनी प्रत्यभाषिष्ट, घृतं नैवाऽस्ति यात तत् ॥५०॥ ग्लाने जनेऽपि सर्वस्यौषधदानादिधीर्भवेत् । ग्लाने साधौ तु किं वाच्यं ?, किन्त्वस्याऽभून्न दानधीः ।।५१।। गतौ व्याघुट्य तौ साधू, धनदस्तु सदाऽपि हि। कीर्ती दाने च धर्मे च, दत्ते नैव धनं क्वचित् ॥५२॥ उपायॊपार्च्य पापेन, सह वित्तस्य सञ्चयम् । कुर्वाणो धनदो मृत्वा, जातस्त्वमसि भो ! इति ॥५३।। कुरङ्गस्तु निशम्यैवं, चिन्तयामास दुर्गतः । अहो ! पूर्वभवे धिग्मे, स्वात्माऽभूदानवर्जितः ॥५४॥ तद्भावादात्मनो मेऽभून्न कदाचित्सुखस्थितिः । दीनो हीनश्च सर्वत्र, भ्रमाम्यप्राप्तजीविकः ॥५५।। पूर्वोपार्जितमेवाऽत्र, भुज्यते तन्न मेऽभवत् । द्रव्याऽभावान्न दानेन, कर्ताऽस्मीह शुभाऽर्जनम् ॥५६।। तद्गृह्णामि व्रतं येन, स्यादुष्कर्मक्षितिर्मम । ध्यात्वेति व्रतमादाय, तपस्तेपे स सर्वदम् ॥५७।।
इत्यदाने कुरङ्गकथा ॥
अदाने कुरङ्गकथा ।
३७५