________________
तप्यमानस्तपस्तीव्र, सहमानः परीषहान् । श्रद्दधानो जिनोक्तीश्चाऽनुग्रामं विचरत्यसौ ॥४५।। अन्येधुरायुषः पूर्तेः, प्रस्मरन् परमेष्ठिनाम् । शुभभावनया मृत्वा, सुन्दरः स ययौ दिवम् ॥४६॥ इत्युपरोधदानस्याऽप्यैहिकाऽऽमुष्मिकं फलम् । श्रुत्वा महामतिर्नित्यं, दद्याद्दानं महात्मनाम् ॥४७॥
इत्युपरोधदाने सुन्दरकथा ॥
३६४
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।