________________
अथेयान् लाभवृत्तान्तोऽषडक्षीणो बभूव यत् । तन्निश्चितमुपरोधदानस्यैतद्विजृम्भितम् ॥३३॥ इति प्रत्ययितो दानप्रभावे स तपस्विनाम् । मुञ्चन् मिथ्यात्वभावं च, सदा दानपरोऽभवत् ॥३४॥ अथाऽन्येद्युस्तन्नगरस्वामिनः पृथिवीपतेः । अकस्मादतिपीडाकृत्, कुक्षौ शूलमजायत ॥३५।। तेनाऽथ पीडिते राज्ञि, विफलेषु भिषक्षु च । तत्पीडापीडितो मन्त्रीतिडिण्डिममवादयत् ॥३६।।
औषधान्मन्त्रतो वा यो, राज्ञः शूलं न्यवर्तयेत् । तदस्य दास्यते नूनं, यदसौ याचयिष्यति ॥३७।। अथाऽसौ सुन्दरस्तत्तद्रनमाहात्म्यवेदकः । अस्पृक्षड्डिण्डिमं सर्वलोकप्रत्यक्षमात्मना ॥३८॥ परिधायाऽथ शूलस्य छेदिरत्नाङ्कमुद्रिकाम् । गत्वा भूपं मुद्राङ्गुल्यालोड्य पाथस्त्वपाययत् ।।३९।। मूलादुन्मूलिते शूले, पीतेन तेन पाथसा । याचस्व स्वेप्सितं श्रेष्ठिन्नित्युवाच महीपतिः ॥४०॥ अथाऽयं सुन्दरोऽवादीत्, किं न लब्धं मया विभो !? । यन्नाथस्य न्यवर्त्तिष्ट, शूलं मूलाद्व्यथाकरम् ॥४१।। तस्योक्त्या नृपतिस्तुष्टः, कर्पटौचित्यपूर्वकम् । हस्तस्पृष्टिकया तस्मै, मूलश्रेष्ठिपदं ददौ ॥४२॥ उडूनामिव शीतांशुः, स मुख्यो वणिजां भवन् । पालयामास श्रेष्ठित्वं, संवत्सरान् बहूनपि ॥४३॥ अथ सञ्जातवैराग्यः, पुत्रं न्यस्य निजेपदे । मुक्तिसखीमिव श्रेष्ठी, प्रव्रज्यामग्रहीत्ततः ॥४४।।
उपरोधदाने सुन्दरकथा ।
३६३