________________
अथ नव्यं सुधालिप्तमकस्मादपि मूलतः । अभाग्यमिव तद्वेश्माऽग्रद्वारं खण्डशोऽपतत् ॥२१॥ गत्वाऽट्टे श्रेष्ठिनस्तस्य, गृहिणी तन्न्यवेदयत् । सोऽप्युत्तरमदादेतददोऽपि दृश्यते शुभम् ॥२२।। सुवर्णकवलैः पोष्यमाणाऽप्यरोषिताऽपि च । पितृभ्यामप्यनाहूता, वधूः पितृगृहं ययौ ॥२३।। यशोमत्येति कथिते, पुरतः सुन्दरस्य तु । विमृश्याऽन्तस्तदेवैष, तस्यै प्रत्युत्तरं ददौ ॥२४॥ अथ सङ्कीर्णरथ्यायां, पृष्टप्रेरणकर्मणा । पिण्डीभूतेभ्योऽप्यमाद्भ्यो, वृषभेभ्यः पृथग्भवन् ॥२५।। जात्यरत्नभृगोणीको, देश्यवाणिज्यकारिणाम् । उक्षकः प्रदोषे पुण्यमिव तद्गेहमाविशत् ॥२६॥ [युग्मम्] प्रविष्टं वृषभं वीक्ष्य, प्रेक्षावान् सुन्दरस्ततः । दिशो निरूप्य गोणी चाऽऽदाय तं निरवासयत् ॥२७॥ गोणीमानामथो गर्ती, खनित्वाऽत्र निवेश्य ताम् । लिप्त्वोपरि ततः स्वस्तिदान् स्वस्तिकानदापयत् ।।२८।। भूयिष्ठेष्वथ यातेषु, दिनेषूद्धृत्य तां ततः । विभाव्य जात्यरत्नानि, हृष्टोऽवादीद्यशोमतीम् ॥२९॥ श्वा न म्रियेत यद्येष, ततो धावेत् खरं रटन् । बलीवर्दश्च न त्रासात्, प्रविशेत्त्वद्गृहं ततः ॥३०॥ मृतेऽप्यस्मिन् यदि द्वारं, त्वद्गृहस्य पतेन्नहि । अमानुक्षा सगोणिश्च, नैव वेश्म समाविशेत् ॥३१॥ अथ प्रविष्टोऽपि नो चेद्गच्छेत् पितृगृहं वधूः । ततः कुत्राऽपि सा ब्रूयाज्जनेऽप्याविर्भवेदिदम् ॥३२॥
-
~
३६२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।