________________
अथाऽन्यदा द्विप्रहरे, दिने सार्थेन तेन च । सरस्यां भोजनायोपक्रान्ते कोऽप्यब्रवीदिदम् ॥९॥ भो ! भोश्चाषः शुभः सोऽयमिदं च दृश्यते शुभम् । उद्यानादेति यत्साधुभिक्षार्थं कुत्रचिद् व्रजन् ॥१०॥ अथाऽऽयाते मुनौ धन्यम्मन्यास्ते साथिनो जनाः । उत्थायोत्थाय नत्वाऽस्मै, भिक्षां स्वस्वेच्छया ददुः ॥११॥ सुन्दरः सोऽपि मिथ्यादृगप्येषामुपरोधतः ।। विनाऽपि भावनां किञ्चिद्ददौ भिक्षां तपस्विने ॥१२।। साधौ गतेऽथ ते सर्वे, भुक्त्वा स्वस्थानमभ्यगुः । सकुटुम्बः सुन्दरस्तु, नगरान्तरमागमत् ॥१३॥ अथ तत्र गतस्याऽस्याऽपरिचितोऽप्यभज्जनः । सौदर्य इव किं वा नो, भवेद्दानप्रभावतः ॥१४।। तेनाऽथ मण्डिते हट्टे, वणिजामापणाः परे । व्यवहारैः सञ्चकुचुः, पद्मानीव विधूदये ॥१५।। अन्येधुरापणाद्गेहं, सुन्दरस्याऽऽगतस्य तु । हिमैवल्लीव विच्छाया, यशोमती ह्यचीकथत् ।।१६।। श्रेष्ठिन् ! येन क्रमाऽऽयातभक्तेनेव पदातिना । नाऽध्वन्यमोचि त्वत्पार्वं, यश्च प्राणसमो मम ॥१७।। कृतज्ञो मौक्तिको नाम, श्वानः पञ्चत्वमाप सः । तदद्य युज्यते नाऽत्तुं, पुत्रत्वेन मतो हि सः ॥१८॥ तच्छ्रुत्वा सुन्दरोऽवादीदित्यध्वन्योपरोधतः । यतः प्रभृत्यऽदां दानं, तद्दिनान्मेऽभवच्छुभम् ।।१९।। यत् श्वाऽकाण्डे मृतस्तच्चैतदपि दृश्यते शुभम् । इत्युक्त्वाऽथ बलात्काराद्यशोमतीमभोजयत् ।।२०।।
उपरोधदाने सुन्दरकथा ।
३६१