________________
इमां दिव्यौषधीं पिष्ट्वा, पिबेस्त्वं स्नानवासरे । अचिरादेव गर्भस्ते, भावी सखि ! न संशयः ॥२१॥ भावी भगिनि ! पुत्रश्चेत्, त्वदौषध्याऽनया मम । तदा सप्तसरं हारं, तुभ्यं दास्यामि निश्चितम् ॥२२॥ कथं मर्त्यगिरा ब्रूषे ?, तयेत्युक्ताऽऽह वानरी । वानरविद्ययेत्येतच्छ्रुत्वाऽगादपर गृहम् ।।२३।। तथा तामौषधीं चक्रे, पद्मश्रीः स्नानवासरे । मेने सा देवतानां चोपयाचितशतान्यथ ॥२४॥ ततोऽभूगर्भसम्भूतिस्तस्याः पद्मश्रियः क्रमात् । पूर्णेषु दिवसेष्वेषा, दुःखेनाऽसूत वानरम् ॥२५॥ चित्रं चित्रमहो !! जातो, वानरोऽस्याः स्तनन्धयः । इत्युक्ते सूतिदायिन्या, पद्मश्रीस्तु मुमूर्च्छ सा ॥२६॥ मूर्छाव्यपगमादुच्चैर्हा ! दैवेति ब्रुवाणया । तया तत्र गृहाऽऽरामे, त्याजितो वानराऽर्भकः ॥२७॥ दिवसान् गणयन्त्या च, वानर्या तत्र सोऽर्भकः । त्यक्तमात्रोऽपि जगृहे, गृहे नीतो निजे मुदा ॥२८॥ गूढगर्भवशादेषोऽज्ञात एव सुतोऽजनि । स्तन्यं मेऽल्पं चेति व्याजात्, सा सखीस्तमदीधपत् ॥२९॥ पद्मश्रीश्च पटुर्जाता, पुनस्तत्रैव कानने । रुदती वीक्ष्य वानर्या, तयाऽऽगत्य न्यवार्यत ॥३०॥ मा रोदीः शृणु मे वार्तामयमग्रेतनः सुतः । मयैव वन्ध्ययाऽऽत्मार्थमुदपादि सखि ! त्वयि ॥३१॥ इदानीं तु गृहाण त्वमन्यन्मय॑सुतावहम् । औषधं नाऽत्र कर्तव्यः, सन्देहः सुतजन्मनि ॥३२॥
आरामनन्दनकथानकम् ।