________________
प्रतापसहिताः सर्वेप्यारामाः पत्तयोऽपि च । प्रासादराजिता शश्वत्पू: सेना जनताऽपि च ॥९॥ महेभ्यास्तत्र चत्वारो वणिजः सन्ति सोदराः । समवायादेकधनाः, पुरुषार्था इवाऽङ्गिनः ॥१०॥ त्रयाणां ज्यायसामस्ति, पुत्रपुत्र्यादिसन्ततिः । विशालबुद्धिनाम्नस्तु, तुरीयस्य न विद्यते ॥११॥ सर्वेषामन्यबन्धूनां, बहुशस्तनुजन्मनाम् । प्रतिवर्षं विधीयन्ते, विवाहाऽऽदिमहोत्सवाः ॥१२॥ पत्नी विशालबुद्धेस्तु, पद्मश्री म साऽन्यदा । समीक्ष्य ज्येष्ठजायानां, विवाहे परमां श्रियम् ॥१३॥ स्वाऽन्ते दध्यावधन्याऽहं, यस्या मे नाऽस्ति पुत्रकः । सति तस्मिन् ममाऽप्येवं, पूर्णीभवति कौतुकम् ॥१४॥ युग्मम् ॥ पत्यौ सत्यपि नारीणां, सर्वोत्सवनिबन्धने । अनिर्वाच्या मुदस्तासां, न भवेयुः सुतं विना ॥१५॥ पितृश्वशुरवर्गोऽपि, सति पुत्रे हि योषितः । विवाहाऽऽदिमहव्याजात्, सत्करोति विशेषतः ॥१६॥ इत्यलब्धरतिः पुत्राऽनुत्पत्तिदुःखपूरिता । पद्मश्रीनित्यशो गत्वा, गृहाऽऽरामे रुरोद सा ॥१७॥ रुदतीमेकदा तां हि, रोदयन्ती तरूनपि । आगत्य वानरी काचिदूचे किं सखि ! रोदिषि ? ॥१८॥ पद्मश्रीः प्राह किं तुभ्यं, मन्दभाग्योगिराम्यहम् ? । येन मां बाधते वन्ध्याकलङ्कः सखि ! वानरि ! ॥१९॥ ततः सा वानरी किञ्चिद्विचिन्त्याऽन्तः कुतोऽप्यथ । औषधीं काञ्चिदानीय, पद्मश्रियमवोचत ।।२०।।
५२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।