SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगतो बहिरद्राक्षीत्, सैन्यं तत्परितः पुरम् । कुमारोऽरिवधोपायं, पप्रच्छाऽजासुतं ततः ॥४३०॥ आत्ताऽऽत्मरूपः स प्राह, सामसाध्यो न दण्ड्यते । तत् साम्नैव मया साध्यास्तवैते रिपवः खलु ॥४३१॥ विना रिपुवधं न स्यात्, पितृवधप्रतिक्रिया । इति चेन्मन्यसे तत् श्वः कर्त्ताऽस्मि पश्यतस्तव ॥४३२॥ ओमिति प्रतिपद्याऽसौ, कुमारस्तद्युतस्तदा । समागाद्गोपुरद्वारे, तदध्यक्षमुवाच च ॥४३३॥ गत्वा ब्रूहि महामात्यं, यथा शुकनिवेदितः । स पुमान् द्वारमध्यास्ते, ततोऽसौ तत्तथाऽकरोत् ||४३४|| सहर्षसम्भ्रमो मन्त्री, स्वयमागत्य तत्र हि । नत्वा कुमारमादाय, सार्धं तैः सौधमागमत् ॥४३५।। वृत्तान्तं कथयन् पृच्छन्, मन्त्री रात्रिं निनाय ताम् । प्रातरुत्साहपूर्वं च, स्वे राज्ये तं न्यवीविशत् ॥४३६॥ विपक्षग्रीष्मसन्तप्तं, तत्पुरं तेन भूभुजा । सहसाऽऽयाताऽब्देनेव, निर्वापितमभूत्तदा ॥४३७|| विमलवाहनो राजा, पुरेऽस्मिन्निति डिण्डिमे । मन्त्रिणा वादितेऽस्माकं, भीरेषेत्यरयोऽहसन् ॥४३८॥ पूरोधपितृशोकाभ्यां ज्वलन्नन्तरुवाच तम् । अजापुत्रं रिपूच्छेदे, राजा विमलवाहनः ॥४३९॥ प्रत्यवोचदसौ राजन् !, दूतेनाऽऽदिश शात्रवान् । यत् प्रातर्मङ्गले वारे, युधि सन्नह्यतामिति ॥ ४४०॥ प्रपद्य तद्वचो दूतात्तत्तथैवाऽकरोन्नृपः । विना गजं क्व रोक्ष्यामीत्यूचे च बहुखेदभाक् ||४४१॥ सत्त्वेऽजापुत्रकथा । ३९
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy