________________
भवेत्सा विस्मृता कालादानाय्याऽः [Sत्रोपलक्षय I पृच्छाऽभिज्ञानमप्येनां, विवाहस्मारकं किल ॥ १५२॥ ओमित्युक्ते नृपेणाऽथ, मुनिरेनामजूहवत् । सार्धं वृद्धतपस्विन्या, प्रविवेश शकुन्तला ॥१५३॥ नीरङ्गीच्छन्नवक्त्राऽग्रां, लज्जाऽऽच्छादितवक्तृताम् । समीक्ष्य विस्मृतिग्रस्तो राजा तां द्राग् निराकरोत् ॥१५४॥ शकुन्तला ततो दध्यौ, का गतिर्मेऽधुना हहा !!? | रहस्यूढाऽस्मि येनाऽहमुक्तिस्तस्येयमीदृशी ॥ १५५॥
न मामन्यायिनीं मत्वा, नेष्यन्ति मुनयो गृहान् । नाऽस्ति मे स्थानमन्यत्र, किं करोमि ? क्व यामि च ? ॥१५६॥
राजा पर्षदि चैतस्यां, नैवाऽहं वक्तुमुत्सहे ।
न विना वचनान्मन्ये, प्रत्येष्यति महीपतिः ॥ १५७॥
इति चिन्तयन्त्यां तस्यामूचुस्ते मन्त्रिणस्ततः । शुभे ! किमस्त्यभिज्ञानं, सम्बन्धप्रत्ययाय नः ? ॥१५८॥ शकुन्तलाऽऽह राजैव, प्रत्ययः किं परेण मे ? । किं न जानाति भूपोऽयं ?, योऽधुना वक्त्यनीदृशम् ॥१५९॥ राजाऽऽह मुग्धे ! नैवाऽऽहमद्राक्षं त्वां कदाऽपि हि । सम्बन्धसन्धिबन्धाय, ततो मत्प्रत्ययः कथम् ? ॥१६०॥ तापसः प्राह मुग्धोऽयमारण्यकाऽङ्गनाजनः । सतीत्वादृजुभावाच्च, नाऽनृतं वक्ति भूपते ! ॥ १६१॥ राजाऽऽह नमुने ! वेत्सि, स्त्रीणां चरितमद्भुतम् । मायाकौटिल्यपाण्डित्यात्, तत्किं यत् कुर्वते न ता: ? ॥१६२॥
सत्यं वेत्स्यनुभूतत्वात्, स्त्रीवृत्तं किं तु तन्मयि । चेद्भवेन्नृप ! नेदृक् स्यादुक्तिप्रत्युक्तिविप्लवः ॥ १६३॥
२६४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।