SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ सदा स्त्रीव्यसनाऽन्धानां, मतिः स्मृतिपराङ्मुखी । परं त्वमसि विज्ञानामग्रणीर्नीतिकारकः ॥१४०॥ अवश्यं नैव कर्ताऽस्मि, कदाऽप्येतस्य कर्मणः । इति निश्चित्य चित्तेन, साऽवष्टम्भं नृपोऽवदत् ॥१४१॥ ऋषे ! सम्यग्न विज्ञाय, समायातोऽसि मत्पुरे । सोऽन्यः कोऽपि गवेष्यस्ते, यः स्वीकृत्य स्त्रियं त्यजेत् ॥१४२।। न दृष्टा नाऽपि च प्रोक्ता, न सङ्गेन विडम्बिता । इत्यर्थे निश्चयं मत्वा, भूयो याहि त्वमाश्रमम् ॥१४३॥ मुनिः प्राह क्रुधा ताम्रस्त्वां विद्मो वयमुत्तमम् । वर्णाश्रमगुरुं वर्णसङ्करोपप्लवाऽपहम् ॥१४४॥ न जानीमः स्वयं नित्यस्त्रीव्यसनादुराशयम् । अविचारज्ञमासक्तमन्याये विरतं नयात् ॥१४५॥ अत एव तवाऽन्यायात्, प्रारम्भा व्यवसायिनाम् । वृक्षा बाह्याऽऽश्रमाणां च, न फलन्ति यथा पुरा ॥१४६।। आस्तामन्यत्किलाऽन्यायस्थानं किं स्यादिदं क्वचित् ? । कुलीनानां प्रशान्तानां, स्त्रीणां स्वीकारनिह्नवः ॥१४७॥ मा त्वं वृथा कृथाः कोपमस्मासु सत्यवादिषु । न सोढारो वयं कोपमपवादप्रदस्य ते ॥१४८॥ इत्युक्ते भूभुजा क्रुद्धः, तापसः प्राह साहसात् । अरे ! दुष्यन्त ! वेत्सि त्वमपवादं किलाऽधुना? ॥१४९।। न तदा ज्ञातवान् किं त्वं, कुलस्त्रीग्रहमीदृशम् ? । पूर्वं या स्वीकृता स्नेहात्, सा हठात् स्वीकरिष्यते ॥१५०॥ धर्माऽधिकरणाऽमात्याः, प्रोचुराचारकोविदाः । राजन् ! मा सहसैवैनां, मुनिपुत्रीं निराकृथाः ॥१५१॥ दुष्यन्त-शकुन्तलाकथा । २६३
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy