________________
जगादाऽथ सरित्पुत्रो, देवि ! दर्शय मेऽद्भुतम् । मदीयं भ्रातरं पश्चादुच्छेत्स्यामि स्वयं रिपून् ॥३०८।। उवाच देवता राजन्निदानीमुत्सुकाऽस्म्यहम् । अष्टापदगिरौ द्रष्टुं, चरणानर्हतां ततः ॥३०९॥ साऽङ्गोपाङ्गं निजभ्रातृरूपं क्वाऽपि त्वमालिख । अस्याऽनुसारात्तं वीक्ष्याऽऽनेष्यन्ति मम किङ्कराः ॥३१०।। ततो राज्यप्रदाऽऽदिश्य, तमर्थं व्यन्तरान्निजान् । जगामाऽष्टापदे तेभ्यस्तथा कृत्वाऽऽर्पयन्नृपः ॥३११॥ बहिःस्थं वेत्ति तं देवी, परं नाऽकथयत्स्वयम् । क्रीडया वा तयोर्युद्धं, द्रष्टुं वा भावि वीक्ष्य वा ॥३१२।। व्यन्तराः पटमादाय, भ्रमुः सर्वत्र मेदिनीम् । नाऽद्राक्षुः पुरुषं कञ्चित्पटरूपाऽनुयायिनम् ॥३१३।। व्यन्तरास्तमपश्यन्तो, निवृत्तास्तां पुरीं प्रति । नृपाऽरिसैन्ये पल्यङ्कसुप्तं तं ददृशुनिशि ॥३१४॥ पटरूपसमं रूपमस्येत्यूचुः परस्परम् । स्वभ्रातुः सरित्पुत्रस्य, किमेष शत्रुतां ययौ ? ॥३१५॥ मोक्तव्योऽयं न तत्रैव, प्रेक्ष्य यद्युद्धमेतयोः । राज्ञे प्रदर्श्य शीघ्रं चाऽऽनीय मोच्योऽयमत्र हि ॥३१६।। इत्यालम्ब्य हरिषेणशय्यामुत्पाट्य ते ततः । विद्युदुद्योतवद्राज्ञे, प्रदर्श्य मुमुचुस्तथा ॥३१७॥ राजाऽपि प्रत्यभिज्ञाय, ज्यायांसं भ्रातरं निजम् । भ्रातृदर्शनपर्यन्तां, सन्धां पूर्णाममन्यत ॥३१८॥ कुतोऽप्याऽऽनीय सुप्तोऽयं, नीतश्च व्यन्तरैः क्षणात् । न मेऽभूद्वचनाऽऽलापो, राजेति विषसाद च ॥३१९।।
१२८
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।