________________
तदैव च पुरीलोको, ज्ञात्वा ढोकं पुरीं प्रति । सम्भूयाऽऽगत्य निर्भीकश्चक्रोश नृपमुच्चकैः ॥२९६।। ततो वीक्ष्य पुरीलोकं, रुदन्तं सर्वतस्तथा । ज्ञात्वाऽरिबलभूयस्त्वं, प्रतिज्ञां स्वां विचिन्त्य च ॥२९७।। क्षीणाऽन्यसकलोपायः, सरित्पुत्रनृपोऽस्मरत् । वरेणैकेनाऽधमाँ, देवीं राज्यप्रदां ततः ॥२९८॥ [युग्मम्] स्मृतमात्रैव सा देवी, समेत्य नृपतेः पुरः । बभाषे वत्स ! ब्रूहि त्वं, सज्जाऽस्मि करवाणि किम् ? ॥२९९॥ सरित्पुत्रस्ततः प्रोचे, देवी प्रति कृताऽञ्जलिः । स्वभ्रातरं यदा द्रक्ष्ये, तदा यास्याम्यहं बहिः ॥३००॥ इति मत्प्रतिज्ञां श्रुत्वा, द्विषश्छलविलोकिनः । अरौत्सुर्मत्पुरीमेते, मय्यन्तः सति राजनि ॥३०१॥ सन्धानिगडितत्वेनाऽनभ्यमित्रेऽधुना मयि । देवि ! प्रसीद पूर्लोकं, पाहि द्विषदुपद्रवात् ॥३०२॥ अथ राज्यप्रदा प्रोचे, वत्साऽऽकर्णय मद्गिरः । मया प्रदत्तराज्यस्याऽऽज्ञासिद्धस्य बलं ह्यदः ॥३०३॥ स्मरति स द्वितीयस्ते, मत्प्रासादे तदाऽऽगतः । दृष्टिविषोरगाऽऽतङ्कान्नंष्ट्वाऽगादृद्ध्या सह ॥३०४॥ त्वयाऽथ मारिते सर्प, तत्रोपद्रवकारिणि । पूर्ववद्वसति द्वीपे, पुनर्दीपोत्सवोऽभवत् ॥३०५॥ तपत्त्रणि कुण्डेऽथ, झम्पा त्वमिव सोऽप्यदात् । साहसात्तस्य राज्यं च, स्वर्णद्वीपे ददे मया ॥३०६।। यथा तव तथा तस्य, राज्यदाऽस्म्यहमेव हि । कथमुच्छेत्तुमर्हामि, राजंस्त्वमिव तद्बलम् ॥३०७।।
हरिषेणश्रीषेणकथा ।
१२७