________________
जिनदत्तकृतद्यूतकाररक्षादिवर्णनम् ततो जिनदत्ततो ज्ञातवृत्तान्तेन राज्ञा ते चतकारा बाढं हकिताः -रे रे धूर्ताः ! युष्माभिरित्थमेव सर्व नगरं मुष्यते, यद्येषोऽपि पुण्यात्मा वञ्चितः तर्हि युष्मदग्रे न कोऽपि छुटिष्यति, ततो यूयं दण्डयोग्याः स्थ । ततो नृपो यावता तेषां गुप्त्यादिविडम्बनामादिशति तावता श्रेष्ठिना 'ह हा ! खरक्षये रजको म्रियते' इति विमृश्योचे - हे राजन् ! ध्रुवमेते निरपराधा एव, किन्त्वमी 'मत्पुत्रो द्यतव्यसनी कार्यः' इति मयैव प्रेरिताः, तदस्मिन् व्यतिकरे यावदमी पीडयिष्यन्ते तावन्ममैव पापं भावीति ममोपरि प्रसादं विधायाऽमून् मुञ्च । इत्युक्तोऽपि नृपो जिनदत्तरोषज्ञानार्थ किञ्चिद् विलम्बते । अत्रान्तरे सम्मुखनिरीक्षणाद्याकारेण भूपभावं विज्ञाय जिनदतोऽपि तद्गुणानेव जग्राह – राजन् ! यद्यमी द्रव्यं नाहारयिष्यन् तर्हि ममैतावन्मानं राज्यपदं कथं स्यात् !, तदमी महोपकारिणः परिधाप्याः । इति जिनदतवचनात् सम्मान्य ते मुक्ताश्चिन्तयन्ति स्म – “अहो ! सन्तो द्रोहकारिष्वपि सुन्दरविधायिन एव । यदुक्तम् -
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्ण', घृष्टं घष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् । छिन्नं छिन्नं पुनरपि पुनः स्वाददं चेक्षुदण्डं,
प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥२६३।।" ततो राज्ञोचे - हे श्रेष्ठिन् ! त्वया स्वपुत्रस्यापि कथमित्थं तिरस्कारः कारितः ? श्रेष्ठी प्रोचे - " राजन् ! आयतौ विहलोकसुखमिच्छता मया सत्यमपमानानुकारः सत्कारः कृतः, पुनरनेन भाग्यवता तदपि न संसोढम्, देशान्तरगमनादस्य राजहंसवदुज्ज्वलोभयपक्षस्येदमपि युक्तम् , यदुक्तम् -
'बग ऊडाड्या बापडा के पालि के तीरि ।
हंस पराभव किम सहइ ? अमरस जाहं सरीरि ॥२६४॥" -[निजपुत्रीसौभाग्यलता-जिनदत्तयोः पाणिग्रहणानन्तरमरिमर्दननृपस्य ....
जिनदत्ताय निजराज्यदानम् ] तदा कश्चिदवसरज्ञो विज्ञो ब्रूते - " हे श्रेष्ठिवतंस ! बहुदेशेषु जडनिवेशेषु प्रान्त्वा त्वां निर्मलमानसं स्मृत्वा यदसौ समागतस्तदसौ सत्यं राजहंस एव । यदुक्तम् -
1. बकाः उड्डायिताः वराकाः कदाचित् पालौ कदाचित् तीरे [ तिष्ठन्ति ] । हंसाः पराभवं कथं सहन्ते अमर्षः = असहिष्णुता येषां शरीरे ॥