________________
जिनदत्तकथानकम्
ततो यथा द्यतरूपकुकर्माचरणेन त्रपा जाता, यथा श्वसुरकुलं गतः, यथा तत्र प्रियां हित्वा दशपुरं गतः, तत्र यथाऽशीतिकोट्यधिपो भूतः, यथा सिंहलद्वीपं गतः, तत्र यथा स निगृह्य श्रीमती परिणीता, यथा ओदत्तव्यवहारिणा समुद्रमध्ये क्षिप्तः, यथा रत्नपुर्यां विज्जाहरी परिणीता, यथा षोडशविद्यादिलाभो जातः, यथा चम्पायामागत्य वामनत्वं कृतम्, यथा शिला हासिता, यथा तिस्रः प्रिया आलापिताः, यथा हस्ती वशीकृतः, यथा मदनमञ्जरी लब्धा, यथा चम्पाराज्यं प्राप्तम्, यथा मातृ-पितृमिलनोत्कण्ठया वसन्तपुरागमनं जातम्, तथा जिनदत्तराजः सर्वं पित्रोः पुरोऽचीकथत् ।
पुनः पितरावुचतुः " अहो ! लोकोक्तिरेषा न मृषा कदाचित् यत् पुरुषस्य भाग्यानामन्तो नास्ति, तथा केनाऽप्येवं सत्यमुक्तम् यथा
-
गन्तव्यं नगरशतं विज्ञानशतानि शिक्षितव्यानि ।
भूपतिशतं च सेव्यं, स्थानान्तरितानि भाग्यानि ॥ २३२॥”
अथ श्रेष्ठी श्रेष्ठिनीं प्रति जल्पति “हे भद्रे ! त्वं पूर्वमकथयेः यदावयोरेकः पुत्रो विद्यमानोऽप्यविद्यमान एव यथैकं लोचनमिति तदयुक्तम्, यत् तवैकस्यापि पुत्रस्य जगज्जनचित्तहरं सर्वलोकचित्रकरं भाग्यं विलोकय, भाग्यवानेकोऽपि भवतु, पुण्यहीनैर्बहुभिः किम् ?, यतः - एकोऽपि यः सकलकार्यविधौ समर्थः पुण्याधिको भवति किं बहुभिः प्रहीणैः ? । चन्द्रः प्रकाशयति दिङ्मुखमण्डलानि, तारागणः समुदितोऽप्यसमर्थ एव ॥२३३॥
एकेनाऽपि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभी || २३४॥
ܕܕ
८८
तदा लोकाः सर्वे विस्मिता एवं वदन्ति - अहो ! अपूर्वमिदमाश्चर्यम्, यदेतौ दुस्थावप्यस्य राजराजस्य पितरौ जातौ, अहो ! विधिविलसितेन यन्न चिन्त्यते तद् भवति, अहो ! धन्योऽयं श्रेष्ठी यस्य पुत्रोऽयं नभसीव रविर्महीतले तपति, अहो ! पुत्र एव सकलं कुलं दीपयति, यदुक्तम् -
--
शर्वरीदीपकश्चन्द्रः प्रभाते रविदीपकः ।
त्रैलोक्ये दीपका धर्मः, सुपुत्रः कुलदीपकः ॥ २३५॥