________________
जननी - जनक- जिमदत्तानां परस्परं वृत्तान्तकथनम्
"
बोद्धततरु शिखरवर्तिनः पक्षिप्रकरा अपि रुरुदुः किं पुनर्मानवाः १, वत्स ! त्वद्विरहे यदि दिनं गतं तथा रात्रिर्न याता, क्षणेन दिनामितम्, दिनेन वर्षायितम् वर्षेण युगान्तायितम्, बस ! तब वियोगे यदावयोर्दुः खमभूत्, तद् वैरिणोऽपि मा भूत्, बहु किमुच्यते अद्य ! मावद मब् दुःखं जातं तन्नैकया जिह्वया वक्तुं शक्यते " । इति श्रुत्वा नरपतिराह " हे तात! हे मातः ! नहि भक्तिव्यता केनापि लङ्घयितुं शक्यते, यतः
सासा सम्पद्यते बुद्धिः सा मतिः सा च भावना | सहायास्तादृशा ज्ञेया यादृशी भवितव्यता ॥२२५॥ मिस बिण माथा मांहि अक्षरडा जे विहि लिखिया । तेहह भांजणहार कोइ न देखउं साचिला ॥२२६॥
मज्जत्वम्भसि यातु मेरुशिखरं शत्रुं जयत्वाहवे,
वाणिज्यं कृषिसेवनादि सकला विद्याः कलाः शिक्षतु ।
-
आकाशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नं परं, नाभाव्यं भवतीह कर्मवशतो, भाव्यस्य नाशः कुतः ? ॥ २२७॥
न स प्रकार ः कोऽप्यस्ति येन सा भवितव्यता | छायेव निजदेहस्य लध्यते जातु जन्तुभिः ॥२२८॥ अवश्यम्भाविभावानां प्रतीकारो भवेद् यदि । न ते दुःखेन बाध्यते नल - राम - युधिष्ठिराः ॥ २२९॥ दाता बलिर्याचयिता च विष्णुर्दानं मही वाजिमखस्य कालः । दातुः फलं बन्धनमेव जातं, नमोऽस्तु तस्यै भवितव्यतायै ॥ २३० ॥
गगनं विपुलं तुरङ्गमाः सततं गन्धवहातिशायिनः । रविरेति तथाप्यरेर्मुखं, नहि नाशोऽस्ति कृतस्य कर्मणः ॥२३१॥
इति ज्ञात्वा हे पितरौ युवाभ्यां पूर्वानुभूतस्य दुःखस्य जलान्जलिर्देमा
---
" I
ततो मातापितृभ्यां पुनः प्रोक्तम् - " हे क्त्स ! अस्माकं दुःखं तदैव गतं यदा तव दर्शनं जातम्, परं ' सकृदिष्टसङ्गमः पूर्वदुःखतालको द्घाटन कुञ्चिका' इति तानि दुःखानि सम्प्रति स्मृतिमायान्ति तथा हे वत्स ! त्वमेतावन्तं कालं क्व स्थितः ?, केमु केषु देशेषु भ्रान्तः, कथं च त्वया राज्यं लब्धम् ?, इत्यादि सर्व वृत्तान्तं कथय
1
1. मष विना मस्तके अक्षरा ये विधिना लिखिताः तेषां भञ्जयितारं कमपि न पश्यामि सत्यकम् ॥