________________
जिनदलकथानकम्
युक्तम् परं त्वयि न कोऽपि दोषोऽस्ति, यथा सुवर्णे श्यामता न स्यात्; परमस्माकमेव
"
दोषोऽयम्, यत् त्वं पुण्यं कुर्वन् निवारितः, हे बत्स ! यद्यस्माकं वृद्धभावेन मतिविपर्यासो जातो घृतकारैः सह तव सङ्गतिविधापनात् तर्हि सहसैकदोषेण किमस्मान् त्वं मुञ्चखि परं द्यतकार बुद्धया तवाऽऽयतिसुखं वाञ्छद्भिरस्माभिस्तत् कृतं लोके यदुच्यते
"
स्म ?
यथा -
६८
पितृभिस्ताडितः पुत्रः शिष्यस्तु गुरुशिक्षितः ।
घनाहतं सुवर्ण च जायते जनमण्डनम् ॥२२३॥
,
तथा हे वत्स ! महते राज्यलाभाय तव देशान्तरोऽप्यभूत् त्वद्वियोगेनास्माकमेवमवस्था जाता । अथवाऽलमुपालम्भैः, शुभायाखिलमप्यभूत् ।
ईदृक् स्वपुत्रमाहात्म्यं पश्यामः कथमन्यथा ॥ २२४॥
हे जिनदत्तराज ! तदद्यापि मम भाग्यानि जाप्रति यदद्यानभ्रवृष्टिवदकुसुमफलवत् त्वं दृप्टोऽसि । अथ वत्स ! त्वं विधिना चिरं राज्यं पालय, त्वं राजलक्ष्म्या युतो वर्षकोटिमस्मदाशीर्भिर्जीव, चिरं नन्द, अजातशत्रुर्भव, सुखी भव
ܐܙ
1
ततो भूपतिः सर्वेषां शुद्धि पृच्छति - " हे तात! पुरेऽत्र स्वजनैः सह सर्वोऽपि श्रीसङ्घः कुशली वर्त्तते ?, तथा सर्वाणि चैत्यानि पूज्यमानानि सन्ति ? अज्ञानतिमिरान्धस्व मम ज्ञानाञ्जनशलाकया यैर्नेत्रमुन्मीलितं ते श्रीगुखोऽत्र विजयिनः सन्ति ?, तथा मम धर्मसुहृदः सर्वेऽपि सुखिनः सन्ति, तथा यानि पुस्तकानि नित्यमहं वाचयामास तानि सर्वाणि निरुपद्रवाणि सन्ति ? " इति पृष्टे श्रेष्ठिना ' सर्व निराबाधमस्ति ' इत्युक्ते हृष्टो राजा दध्यौ मम महद् भाग्यं यदहं जिनेन्द्रानचित्वा, बन्धु मित्राणां सङ्गमं कृत्वा स्वगुरून् वन्दित्वा, पुस्तकान् गृहीत्वा पश्चाच्चम्पां गमिष्यामि ।
पुना राजोचे - हे पितरौ ! युवाभ्यां मम विरहे कथं कालः क्षपितः ? ताभ्यां भणितम् – “ शृणु वत्स ! त्वयि श्वशुरालयात् परिच्छदमुखेन गते ज्ञाते सति पूर्व गणका : सर्वेऽलीकवादिनः कृताः, नैमित्तिका अपि मुग्धलोकवञ्चनबुद्धयः कृताः, निर्णीतदिने तवाना - गमनाद् गौडदेशीया अपि स्वोदरपूरणवृत्तयो विहिताः, देवतादीनामुपयाचितपूजादिमाननरूपेण वाङ्मात्रेण चिन्तामणितुल्यं सम्यक्त्वमपि मलिनीकृतम्, ततः सर्वत्र प्रतिपुरं प्रतिग्रामं प्रतिवनं प्रतिपर्वतं स्वच्छोधनाय जनाः प्रेषिताः, चम्पापुरीपुरमिदं च सर्वमामूलं शोधितम् परं क्वापि कदापि तव शुद्धिरपि नाऽऽप्ता, ततो बाढशोकातुराभ्यामावाभ्यां मुक्तण्ठं तथा रुदितं