________________
४६
तथा
तथा -
जिनदत्तकथानकम्
यद्यपि रटति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः ।
तदपि न कुप्यति सिंहो, विसदृशपुरुषेषु कः कोपः ? ।। १७४॥
सिंहः करोति विक्रममलिकुलझङ्कारसूचिते करिणि । न पुनर्नखमुखविलिखितभूतलविवरस्थिते नकुले ॥ १७५॥
तथा ग्रामग्रामाणामुपदाः समायान्ति, स्थाने स्थाने यमुनापूर इव तस्य सैन्यं वर्धते, देशे देशे राजानो राणका मण्डलिकाश्च सम्मुखमागत्य तस्य मिलन्ति । किं बहुना ? तत्पूर्वपुण्याकृष्टाः सर्वमहीमहीपालास्तच्चरणाम्बुजं पर्युपासमाना निरभिमाना राज्यश्रीराजमानाः शौर्या - समाना अपि तदाज्ञां नित्यं मन्यन्ते स्म । अहो ! पुण्येन सर्वत्र जयो वाच्छितसिद्धिश्च स्यात् । यदुक्तम् -
तथा
सर्वत्राऽऽज्ञा भवति जगति, भ्राजमाना गजाली, तुङ्गा भोगाः, पवनजयिनो वाजिनः स्यन्दनाश्च । दर्पाध्माताः सुभटनिकराः, कोशलक्ष्मीः समग्रा, सर्व' चैतद्भयति नियतं देहिनां धर्मयोगात् ॥ १७६॥
धर्मनरेसर' भेटीइ, चिंता नावइ अंगि ।
जं जोइइ तं संपजइ लीलामाहि जि रंगि ।। १७७॥
"
[ जिनदत्तसैन्यभीतवसन्तपुरनृपारिमर्दन प्रेषितढौकनादेर्जिनदत्तकृतो निषेधः जिनदत्तकृताया सपत्निकजीवदेवश्रेष्ठिसमर्पणाज्ञाया अरिमर्दननृपस्याननुपालनं च ]
इत्थं सर्वदेशान् साधयित्वा वसन्तपुरस्य सीनि राज्ञः कटकं समायातं तदा अरिमर्दनराजस्य केनापि प्रोक्तम् - देव ! परराष्ट्रीयराज्ञः सैन्यमसङ्ख्यं सर्वदेशसाधनपरमिहायातम् । ततो राज्ञा विमृष्टम् – “योधनाद् बोधनं वरम् । यतः
पुष्पैरपि न योद्धव्यं, किं पुनर्निशितैः शरैः ।
युद्धे विजयसन्देहः, पुधानपुरुषक्षयः ॥ १७८ ॥
"विण अवसरि जे मांडिइ झूझ, राजउलुं त्रोडइ ति अबूझ ।
माल पडिया घाऊ टीपणइ, धूंबड नाम सह कोइ भइ ॥ १७९ ॥ "
1. धर्मनरेश्वरे मिलिते चिन्ता नाऽऽयाति अङ्ग, यद् अपेक्ष्यते तत् संपत्स्यते लीलया एक रङ्गेन । 2. विना अवसरं यः आरभते युद्धं राजकुलं त्रोटयति स अबुधः । (१)