________________
जिनदत्तस्य जननी-जनकवियोगस्मरणदुःखम् अस्मिन् जगति महत्यपि न किमपि तद्वस्तु वेधसा विहितम् ।
अनिमित्तवत्सलाया भवति यतो मातुरुपकारः ॥१६९॥" इति विचिन्त्य मातापित्रादिस्वजनवर्गमिलनोत्कण्ठितो नृपो वसन्तपुरगमनेच्छया सेनानीमाकार्य सत्वरमादिशति स्म, यथा- भो दण्डाधिप ! सर्वदेशविजयाय सैन्यं सज्जयेति ।
.. अथ दलपतिना शस्त्रा-ऽम्बारी-प्रक्षरबन्धुराः सिन्धुराः कृताः, वेगजितकुरङ्गा अपि दृष्टिदत्तरङ्गास्तुरङ्गा हेमपर्याणवल्गादिभूषिताङ्गाः कृताः, रथा ध्वजपताकालङ्कृताः कृताः, मुखमागितं प्रासमर्पयित्वा दण्डायुधजरद-टोप-रंगाउलि-जीणसालप्रमुखं च दत्त्वा पदातयः संवाहिताः, निस्वाने च घातः चालितः तदा तदाकारिताः समस्तसामन्ता मेलापके मिलिताः ।
अथ कटकवन्धं विधाय दिग्विजयाय पट्टहस्तिनमारुह्य पौरस्त्रीकृतमङ्गलो भूपालश्चचाल । 'अस्मिन् पुरे राज्ञि सति किमिहानेन' इति खे तदा रजसाऽऽच्छादितः सूरः, तथा चतुरङ्गसैन्यस्य किल ब्रह्माण्डं स्फुटतीति शक्काकारी निर्घोषो जायमानोऽस्ति, तत्सैन्यभराक्रान्ता पृथ्वी चकम्पे, गिरयः खडहडिताः, जलधयश्छलछलिताः, 'कोऽयं साधनसमुद्रो याति ?' इति शेषोऽपि शशके । तथा -
हास्तिका-ऽश्वीय-माहिष्य-कौक्षकोष्टकसङ्कुलम् । जनस्तच्चक्रमालोक्य मेने मिलितवज्जगत् ॥१७०।। युद्धश्राद्धतया योधाः, पारवश्येन सेवकाः । रसिकाः प्रेक्षकत्वेन, लुण्टाका लुण्टनेच्छया ॥१७१॥ निर्धनाः कर्मकत्वेन, भट्टा द्रव्यादिलिप्सया ।
वाणिजा व्यवहारेण, भूपसैन्ये समैयरुः ॥१७२।। अथ राजा मार्गे सर्वलोकानां धीरां ददानोऽस्ति, वदति च – “यूयं निश्चिन्ताः सुखेन तिष्ठत, लघुलोकानां किमप्यहं न कथयामि, यो मदोन्मत्तो ममाज्ञां न मन्यते तदुपरि खड्गं वहामि । यदुक्तम् -
आज्ञाभङ्गो नरेन्द्राणां, गुरूणां मानमर्दनम् ।
वृत्तिच्छेदो मनुष्याणां, अशस्त्रो वध उच्यते ॥१७३॥ यदहं रक्कप्रायः पाद्रिकैः सामान्यठक्कुरैश्च किञ्चिन्मदान्धैरपि समं न युध्ये, यतो वैरं स्नेहश्च समशीषिकया भवति । यदुक्तम् -
1. धैर्यमित्यर्थः॥
आज