________________
जिनदत्तकथानकम् [जननी-जनकस्मरणाद् जिनदत्तस्य वसन्तपुरं प्रति प्रस्थानम् ] अन्यदा गवाक्षस्थः स्वस्थः पृथ्वीशो निजां राज्यस्थितिं विलोक्य चिन्तयति-- यद् मम गजा-ऽश्व-कोश-कोष्ठागार-परिवार-जनपद-दास-कर्मकरादीनां पारो नास्ति, यदन्यदप्यश्ववारहस्त्यारोहपारो नास्ति, मन्त्रिसामन्तादिपारो नास्ति; रथ-पत्तीनामपि पारो नास्ति, सुखस्यापि पारो नास्ति, यदन्यदपि किमपि संसारे सारं स्यात् तन्मम सर्वमपारं विद्यते, संसारे यन्नास्ति तन्ममापि नास्ति । पुनः राजा विमृशति - ननु किञ्चिदद्यापि ममापि न्यूनमस्ति । इति पुनःपुनरूहापोहं कुर्वतो राज्ञो माता-पितरौ स्मृतिमागतौ । तदा शोकसागरमग्नो राजा चिन्तयति — " हहा ! हतदैवेन मुषितोऽस्मि यदनेन मम माता-पित्रोवियोगः कृतः, तदहो मम यदि पितरौ न स्तस्तर्हि किमस्ति ?, न किञ्चिदपीत्यर्थः, अहो यद्यद्य तौ पितरौ भवतस्तदा तयोः कियत् सुखमुत्पद्यते ?, तथा ममेदं प्राज्य राज्यं धिगस्तु यदिदं माता-पित्रादिस्वजना न पश्यन्ति न भुञ्जन्ति च । यदुक्तम् -
प्रभूतेनापि किं तेनोपाजितेन धनेन भो! ।
येनात्मीयमनुष्याणां संविभागो न विद्यते ॥१६५॥ तथा
पात्रे त्यागी, गुणे रागी, भोगी परिजनैः सह । शास्त्रे बोद्धा, रणे योद्धा, पुरुषः पञ्चलक्षणः ॥१६६॥
तथा
धम्म' न संचीय तव न तवीय, सयण न पूरी आस ।
ईमइ जणणिकिलेस किय गन्भट्ठिय नवमास ॥१६७॥ तथा पूर्व या मम मातेति विमृशति स्म 'यदहं मत्पुत्रं संसारसुखेन विलसन्तं कदा विलोकयिष्यामि ?' इति सा मद्वियोगे कथं कुर्वन्ती भविष्यति !, तथा मातुरुपकाराणां संसारे न कोऽप्यनृणः स्यात् , या गर्भवासादारभ्य क्लेशसहस्रं सहे । यदुक्तम् -
आस्तां तावदियं प्रसूतिसमये दुर्वारशूलव्यथा, नैरुज्येऽपि च लङ्घनं, मलमयी शय्या च संवत्सरम् । एकस्यापि न गर्भवास दिवसक्लेशस्य यस्याः क्षमो
दातुं निष्क्रयमुद्यतोऽपि तनयस्तस्यै जनन्यै नमः ॥१६८॥ - 1. [ येन ] धो न सञ्चितः, तपो न तप्तम् , स्वजनानां न पूरिता आशाः, [ तेन ] निरर्थकं जननीक्लेशः कृतो गर्भस्थितेन नवमासान् ॥