SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ कर्मविपाकनिरूपणम् तथा - -कर्मप्राधान्येनैव महर्षीणामपि महदुःखं जातम् , यथा - 'सणंकुमारपामुक्खा, चक्किणो वि सुसाहुणो । वेयणाओ कहं पत्ता ? न हुतं जइ कम्मयं ॥१५८।। गयसुकुमालस्स सीसम्मि खायरंगारसंचयं ।। पक्खिवंतो कहं भट्टो ? न हुतं जइ कम्मयं ॥१५९॥ "सुसीसा खंदगस्सावि पीलिज्जता तहा कहं । जतेण पालएणं? न हुतं जइ कम्मयं ॥१६॥ *अंधत्तं बंभदत्तस्स सदेवस्सावि दुस्सहं । चक्किस्सावि कहं भूतं ? न हुँतं जइ कम्मयं ॥१६१॥ मियापुत्ताइजीवाणं कुलीणाण वि तारिसं । महादुक्खं कहं भूतं ? न हुँतं जइ कम्मयं ॥१६२॥ इति ज्ञात्वाऽपि हे भद्राः ! यूयं शास्त्रज्ञाः कथं मुह्यथ ?, यदुक्तं शास्त्रे - सुखस्यानन्तरं दुःखं, दुःखस्यानन्तरं सुखम् । सुखदुःखं हि जीवानां चक्रवत् परिवर्त्तते ॥१६३॥ दुःखे दुःखाधिकं पश्येत् , सुखे पश्येत् सुखाधिकम् । आत्मानं सुख-दुःखाभ्यां शत्रुभ्यामिव नार्पयेत् ॥१६४॥ इति विचिन्त्य युष्माभिः शोक-हर्षर्योर्मनो नार्पणीयम्" । इत्युक्त्वा तासां सुखमुत्पाद्य भूपतिस्ताभिः समं सदा हृदानन्देन समयं गमयति । कदापि रूपाभिराभा रामा रमयति, कदापि राजपाट्यां विनोदेन सैन्यं भ्रमयति, कदापि रिपुवर्ग नमयति, कदापि धर्ममाश्रित्य निजं मनः शमयति, कदापि स वशी पञ्चेन्द्रियाश्वान् दमीव दमयति, एवं स राजा निष्कण्टकं राज्यं रचयति । 1. सनत्कुमारप्रमुखाः चक्रिणोऽपि सुसाधवः वेदनाः कथं प्राप्ताः१ नाभवद् यदि कर्म ॥ 2 गजसुकुमालस्य शीर्षे खादिराङ्गारसञ्चयं प्रक्षिपन् कयं भट्टः ? नाभवद् यदि कर्म ।। 3. सुशिष्याः स्कन्दकस्यापि पील्यमानाः तथा कथं यन्त्रेण पालकेन ? नाभवद् यदि कर्म । 4. अन्धत्वं ब्रह्मदत्तस्य सदेवस्यापि दुःसहं चक्रिणोऽपि कथं भूतम् ? नाभवद् यदि कर्म ॥ 5. मृगापुत्रादिजीवानां कुलीनानामपि तादृशं महादुःखं कथं भूतम् ? नामवद् यदि कर्म ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy