SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ जिनदत्तकथानकम् 'सो को वि नत्थि सुयणो जस्स कहिज्जंति हिययदुक्खाई । हिययाओ इंति कंठे, कंठाओ पुणो विलिज्जति ।।१५२।। तत् पुनर्हृदयं दुःखनिर्भरमपि यन्न स्फुटितं तन्निःश्वासस्य प्रमाणम् । यदुक्तम् - "सव्वह दुक्खह उल्लीचj, जउ नीसास न हुँतु । हीउं रन्नतलाव जिम, फुट्टी दहदिसि जंतु ॥१५३॥ तथा बहु किमुच्यते ? नाथ ! अस्माभिर्युष्मद्विरहे बहुकालं वचनगोचरातीतं दुःखमनुभूतम् " । इति पुनः पुनस्ताभिरुक्ते शोकाश्रुजलार्द्रनयनो राजोवाच - हे प्रियाः ! कर्मणामियं वैचित्री, यदुक्तम् - राम किं मत्थइ जड वहइ पहिरी वक्कलवत्थ ? । विहि लिहावइ विहि लिहई, को भंजिवा समत्थ ? ।।१५४॥ पुनः श्रयताम् – “हे बालाः ! युष्माभिरपि क्वापि जन्मनि पशु-पक्षि-मनुष्यादीनां मत्सरेण भोगान्तरायकर्म कृतं भावि, अथवा कोऽपि मुनिसन्तापादिकर्मविशेषः कृतो भविष्यति तेनेदं दुःखं समुपस्थितम् । यतः - "सव्वो पुवकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमित्तं परो होइ ॥१५५॥ पुनर्पूयं पूर्वसतीकर्मविपाकं शृणुत, यथा - "जिणि मुणिवइ संतावीया बार घडी इणि लोगि । दवदंती दुक्खइं सहिया वरसहं बार वियोगि ॥१५६॥ : तथा - जोउ जगविख्यात, सीत सती जगि जाणीइ । मुकी वनि विलवंत, कर्म करिउं इम माणीइ ॥१५७|| : 1. स कोऽपि नास्ति सुजनः यस्य कथ्यन्ते हृदयदुःखानि, हृदयाद् यान्ति कण्डे, कण्ठात् पुनर्विलीयन्ते ।। 2. सर्वेषां दुःखाना उद्रेचनं यदि निश्वासाः नाभूवन् [तर्हि ] हृदय रण्यतडाक इव स्फुटित्वा दशदिक्षु अगमिष्यत् ॥ 3. रामः किं मस्तके जटां वहति परिधाय वल्कलवस्त्रम् ? । विधिः लिखापयति, विधिः लिखति, कः भक्तुं समर्थः १ ।। 4 सर्वः पूर्वकृतानां कर्मणां प्रप्नोति फलविपाकम् , अपराधेषु गुणेषु च निमित्तमात्र परो भवति ॥ 5. यया मुनिपतिः सन्तापितः द्वादश घटयः अस्मिन् लोके [तया ] दवदन्त्या दुखानि सहितानि वर्षाणां द्वादश वियोगेन ॥ 6. पश्यथ, जगद्विख्याता सीता सती जगति = लोके ज्ञायते, मुक्ता वने विलपन्की कर्म कृतं एवं भुज्यते ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy