________________
जिनदत्तराज्यर्द्धवर्णवादः
तं दृष्ट्वा लोका इति वदन्ति - " अहो दृश्यतां धर्मलीलायितम्, यदि राज्यं क्रियते तदाऽमुना राज्ञेव क्रियते, अन्यथा सर्वसङ्गत्याग एवोचितः । यदुक्तम् -
-
तथा
अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः, पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् । यद्यप्येवं कुरु भव रसास्वादने लम्पटत्वं, नो चेच्चेतः ! प्रविश सहसा निर्विकल्पे समाधौ ॥ १४८॥
दु च्चिय' हुंति गईओ साहसवताण धीरपुरिसाणं । विल्लहलकमलहत्था रायसिरी अहव पव्वज्जा ॥१४९॥
तथा केचित् तत्त्वज्ञा वदन्ति अहो धर्म एव क्रियतां यत्प्रभावेण निरुपमं निष्कण्टकं निष्कलङ्कं निरातङ्कं राज्यमेतस्य जातम् । अथवा
#
कि जंपिएण बहुणा ? जं जं दीसह समग्गजियलोए । इंदिय-मणाभिरामं तं तं धम्मप्फलं सव्वं ॥ १५० ॥ धर्माद् धनं धनत एव समस्तकामाः कामेभ्य एव सुखमिन्द्रियजं समग्रम् । कार्यार्थिना हि खलु कारणमेषणीयं, धर्मों विधेय इति तत्त्वविदो वदन्ति ॥ १५१ ॥ "
[ निजपत्नीभिः सह विरहदुःखानुभववार्तायां जिनदत्तस्य कर्मोदयफलनिवेदकं वक्तव्यम् ]
एकदा सर्वप्रियाभिः सह रममाणस्य राज्ञः समीपे विमलमती - श्रीमती - विज्जाहरीभिः प्राक्तनो विरहावसरसत्कः सम्बन्धः पप्रच्छे यस्या यावान् यावानज्ञातः सम्बन्धोऽभूत् । तेनापि राज्ञा स्वयमज्ञातो निजप्रियापूर्ववृत्तान्तोऽप्रच्छि । ततः परस्परं निजस्वरूपकथनेन किञ्चिच्चित्तसमाधिः कृतः । पुनस्ताभिः प्रियाभिरुक्तम्- स्वामिन्! एतावन्ति दिनानि बाढमस्मदीयं हृदयं दुःखभरप्रपूर्णमेवासीत्, यल्लोके तादृशः कोऽपि सज्जनो न दृश्यते यदग्रे तानि दुःखान्युक्त्वा स्तोकानि क्रियन्ते । यदुक्तम् -
८८
-
-
1. द्वौ खलु भवतः गती साहसवतां धीरपुरुषाणाम् - कोमलकमलहस्ता राज्यश्रीः अथवा प्रव्रज्या ॥ 2. किं जल्पितेन बहुना ? यद् यद् दृश्यते समग्रजीवलोके इन्द्रिय-मनोऽभिरामं तत् तद् धर्मफलं सर्वम् ॥
J-6