________________
जिनदत्तकथानकम्
अन्यच्च
धनेषु जीवितव्येषु, स्त्रीषु चाऽऽहारकर्मसु ।
___ अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च ॥१४॥ तथा –
'भुत्ता दिव्वा भोगा सुरेसु असुरेसु तह य मणुएसु ।
न हु जीव ! तुज्झ तित्ती जलणस्स व कट्ठनियरेहिं ।।१४४॥ अपरं च - प्राप्ताः श्रियः सकलकामदुधास्ततः किं !, दत्तं पदं शिरसि विद्विषतां ततः किं ? । सम्प्रीणिताः प्रणयिनो विभवैस्ततः किं ? कल्पं स्थितं तनुभतां तनुभिस्ततः किम् ? ॥१४५॥ इत्थं न किञ्चिदपि साधनसाध्यजातं स्वप्नेन्द्रजालसदृशं परमार्थशून्यम् ।।
अत्यन्तनिवृतिकरं यदपेतबाधं तद् ब्रह्म वाञ्छत जना यदि चेतनाऽस्ति ॥१४६॥ तथा मूढा एव विषयैर्मुह्यन्ति, न तु तत्त्वज्ञाः । यतः -
दधत तावदमी विषयाः सुखं स्फुरति यावदियं हृदि मूढता ।
मनसि तत्त्वविदां तु विचारके क्व विषयाः क्व सुखं क्व परिग्रहः ? ॥१४७॥ अन्यच्च मम पुत्रोऽपि राज्यधरो नास्ति, ततोऽमुष्मै पुरुषोत्तमाय मयाऽर्द्धराज्यमप्रेऽपि दत्तमस्ति, तस्मादस्यैव जामातुः सकलं राज्यं ददामि, अहं तु कृतकृत्यस्तपोवनं व्रजामि"। इति विचिन्त्य तस्मै जिनदत्ताय तस्मिन्नेव मुहत्त पट्टाभिषेकपूर्व सर्व राज्यं ददौ ।
स राजा सप्तक्षेत्राणि समाराध्य सर्वजनान् मुत्कलाप्य कृतकृत्यीभूय सद्गुरुश्रीगुणाकरसूरिपाश्व प्रवव्राज ।
[जिनदत्तराज्यर्द्धिमुद्दिश्य लोकानां वर्णवादः] ____ अथ जिनदत्तो राजा राजेव सद्वत्तः सौम्यः कलावान् सदाचारोऽपि चित्रं न दोषाकरो न क्षयभाक् च राज्यं करोति तदा सर्वेऽपि पौरा वर्धापनमुद्दिश्य मुक्ताभृतस्थालेस्त संभासीन वर्द्धयन्ति । सीमाला महीपाला अपि ढौकनिकां पुरो मुक्त्वा प्रत्यहं सेवमानाः सन्ति । तस्योपरि श्वेतातपत्रं ध्रियते, तस्योभयतश्चामरधारिणीभिश्चन्द्ररुचिचामराणि चाल्यन्ते । षटत्रिंशद्राजकुलैरहोरात्रं यः सेव्यते । प्रत्यहं पञ्चविधपात्राणि पुरतो नृत्यन्ति । एवं राज्यं कुर्वन्तं
__ 1. भुक्ता दिव्या भोगाः सुरेषु असुरेषु तथा च मनुष्येषु, न खलु जीव ! तव तृप्तिः ज्वलनस्य इव काष्ठनिकरः ॥