________________
जिनदत्त-मदनमञ्जर्यो: पाणिग्रहणम् शशिमण्डले इव प्रकटिते सर्वलोकानां प्रमोदो जातः । राजादयस्तु वदन्ति – “अहो! किं कुमारस्य जितदेव-भूपं रूपम् , जितेन्द्रसौभाग्यं भाग्यं वा वर्ण्यते ? अथ सदृशयोग- . धन्यानां कन्यानां वाऽगण्यं पुण्यं वर्ण्यते ?, यदुक्तम् -
सुकुलजन्म विभूतिरनेकधा, प्रियसमागमसौख्यपरम्परा ।
नृपकुले गुरुता विमलं यशो, भवति पुण्यतरोः फलमीप्सितम् ॥१३९॥ तथा पुरलोकोऽप्ययं धन्यः, येन सकलपुरुषकुलीनस्त्रीयोगोऽयमद्य दिष्ट्या दृष्टः, 'बहुजीवितपार्थाद्दर्शनं वरम्' इति जनश्रुतिरप्यस्ति ।” तदा सर्वैरपि निजदृष्टिसृष्टिः सफला मेने ।
[निजपुत्रीमदनमञ्जरी-जिनदत्तपरिणयनपूर्वकं चम्पानगरीनृपस्य
जिनदत्ताय निजराज्यसमर्पण दीक्षाग्रहणं च] अथ राजा तदैव पट्टहस्तिनमानाय्य जिनदत्तमारोप्य पञ्चशब्देषु वाद्यमानेषु, गान्धविकर्गीतेषु गायमानेषु, सधवाङ्गनाभिर्धवलमङ्गलेषु दीयमानेष, बन्दिजनैश्छन्दःसु पठत्सु, महामहेन राजभवनं नीत्वा तदानीमाहूतैः पृष्टैश्च ज्योतिषिकैस्तत्काललग्ने प्रोक्ते मदनमञ्जर्या समं ततः समेतः, सामन्तकृतनवनवातुच्छमहोत्सवपूर्व तं कुमारं पर्यणाययत् । करमोक्षावसरे तु दानोद्यतो राजा चिन्तयति – “असौ नररत्नं, अहं तु वृद्धो जातः वृद्धत्वे धर्म एवोचितः, यतः -
जउ' पूगी पंचास, पालि परतह बंधीइ ।
धन नई भोगविलास, आस न कीजइ आसनी ॥१४०॥ ममायमाश्रमोऽपि धर्मोचितो जातः, यदुक्तम् -
प्रथमे नार्जितं विद्या, द्वितीये नार्जितं धनम् ।
तृतीये नार्जितो धर्मश्चतुर्थे किं करिष्यति ? ॥१४१।। अथ च गतोदके कः खलु सेतुबन्धः ?, अथवा जन्तुर्नहि कदापि भोगैस्तृप्यति, यतः -
अम्बर पवणि न पूरीइ, नवि सायर सलिलेण ।
अग्गि न तिप्पइ इंधणिहिं, तिम जीय विसयसुहेण ॥१४२॥ 1. यतः परितानि पञ्चाशद [वर्षाणि ] [ततः ] पालिः परलोकस्य बनीयात् । धनस्य च भोगविलासानां आशां न क्रियात् आसन्नाम् ॥ 2. [ यथा ] अम्बरं पवनेन न पूर्यते, नापि सागरः सलिलेन; अग्निः न तृप्यते इन्धनः, तथा जीवः विषयसुखेन ॥