________________
प्रतिज्ञाबद्धस्य नृपस्य वामनाय निजपुत्रीदाने चिन्ता
परं पुत्री राज्ञी प्रधानाद्या अपीमं सम्बन्धं नेच्छन्ति, किमहमेकः करोमि विमृश्य राजा तद्दिने वामनं कार्यान्तरव्यपदेशेन विससर्ज । भूपतिर्यथातथाकल्पितैरेवोत्तरैर्दिनानि गालयति ।
यदुक्तम्
तथा
अशुभस्य कालहरणं, कालेन क्षीयतेऽशुभम् ।
चिन्तां मा कुरु हे तात ! कालः कालो भविष्यति ॥ १३१ ॥
" । इत्यादि
तथा प्रत्यहं वामनयाच्ञायां
कालः सृजति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥ १३२॥
क्षणेन लभ्यते यामो, यामेन लभ्यते दिनम् । दिनेन लभ्यते कालः, कालः कालो भविष्यति ॥१३३॥ दिवारात्रं तया चिन्तया दुःखातुरो दुर्बलोऽपि राजा जातः । यतः
चिता' डाइणिजिहां वसइ तीह अंग दृढ किमु थाइ ? | जउ धीरउ धीरिम करइ तउ अभितरि खाइ ॥ १३४ ॥
[ केवलिकथितं जिनदत्तस्य वामनस्वरूपम् ]
इत्थं कियत्स्वपि दिनेषु गतेषु केवली तत्र पुरे समवासार्षीत् । तदा वनपालो महिपालं वर्द्धापयामास देव ! तवोद्यानमद्य केवली स्वचरणन्या सैरलङ्करोति । इति श्रुत्वा राजा पारितोषिकं दत्त्वा नगर लोकसहितो वनं गत्वा विधिवद् गुरुं नत्वा यथोचितप्रदेशे / निषण्णो देशनां शृणोति, यथा “भो भव्याः ! भवे जीवानां ज्ञानमेव दुर्लभम् विज्ञानं
"
पशुष्वपि दृश्यते, यथा
_
-
विज्ञानं किमु नोर्णनाभ - सुगृही - को कासि-हंसादिषु, युद्धं किं न लुलाप-लावककुले मेषे तथा कुर्कुटे | नृत्तं गीतकला च केकि - पिकयोर्वाक् सारिका - कीरयोः, श्रीधर्माचरणे चिरं चतुरता यद्यस्ति मानुष्यके ॥१३५॥
आहार-निद्रा-भय-मैथुनानि तुल्यानि सार्द्धं पशुभिनराणाम् ।
ज्ञानं नराणामधिको विशेषो, ज्ञानेन हीनाः पशवो मनुष्याः ॥१३६॥
1. चिन्ता डाकिनी यत्र वसति तत्र अङ्ग दृढं कथं स्यात् । यदि धीरो धीरत्वं करोति तर्हि अभ्यन्तरे खादति ॥